This page has not been fully proofread.

१०.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
धन्याहं प्राणनाथ त्यज रजनिचरच्छिन्नशीर्षाणि गाढं
मामालिंगाय खेदं जहि विरहमहापावकः शान्तिमेतु ॥ २० ॥
 
साक्षादिति । साक्षान्निःसंशयं राममालोक्य झटिति शीघ्रं हर्षादुत्थाय कुचतटी
भरेण नम्रापि । एतेन झटित्युत्थानायोगो दर्शितः । उदस्तदोर्भ्या रामालिङ्गनायो-
द्भुतभुजाभ्यां दरमीपद्दलितं स्फोटितं यत्कुचाभोगचैलं कुचमण्डलवस्त्रं तद्युक्तमुन्नत-
सङ्गं कुचरूपं यस्याः । सुगमम् ॥ २० ॥
 
इत्यालिंगितुमिच्छति-
रामवेषधारी रावणः- ( सविषादम्)
भूत्वा ततोप्यवसरे जनकात्मजायां
लंकापतिर्मकरकेतुशरातुरायाम् ।
क्लीबो विशीर्णमणिदण्डयुतः स्मरातः
 
पापात्ततः शिव शिवान्तरधीयत द्राकू ॥ २१ ॥
 
१४७
 
भूत्वेति । ततोनन्तरं अवसरे आलिङ्गनसमये स्मरातः रामरूपधारणात्पुरा कामा
तोपि रावण: क्लीबो भूत्वा ततः पापात्सीतावञ्चनाश्रितपापतः अन्तरधीयत अदृ-
श्योऽभूत् । द्राक् शीघ्रं जनकात्मजायां रामदर्शनात्कामशरातुरायां सत्याम् । शिव
शिव कष्टं कष्टम् ॥ २१ ॥
 
जानकी-
सरमोपदेशाद्रावणं रघुनन्दनवेषधारिणं मत्वा ( सविषादं )
 
जानकी-
हाकाश ! हा धरणि । हा वरुणार्क । वायो !
वेत्स्यामि धर्म ! कथमागतमात्मनाथम् ।
(आकाशे ) मन्दोदरी रघुशराहतराक्षसेन्द्र
चुम्चिष्यति त्वमपि वेत्स्यसि तत्र रामम् ॥ २२ ॥