2023-03-19 23:53:32 by ambuda-bot
This page has not been fully proofread.
१४६
हनुमन्नाटकं -
[ अङ्कः-
मद्ध्यानेनेति । क्रोधातिशयात् कोपमाविष्करोति- हे रक्षः-
मया ज्ञातम् । मद्धया
नेन रामः सीताभूत् । त्वद्धतेन विशेपितत्वात्तस्य रामस्य ध्यानेनाद्य मया रामेण
भूयते । रामो भवामीत्यर्थः ॥ १७ ॥
इति रावणो निष्क्रान्तः ।
निजमन्दिरं कियन्तं समयं नीत्वा ( स्वगतं ) महान्तं प्रपंच-
मुत्पाय नूनं जानकी भनुभविष्यामीत्यवधार्य-
भेरीनिःसाणशंखध्वनिगणतुरगस्यन्दनस्फीतनादैः
सानन्दं राक्षसेन्द्रः कटकभटभुजास्फालकोलाहलेन ।
लंकामापूर्य रामः स्वयमभवदथो मायया रावणस्य
छिन्नान्सूर्योदधानः शिरसिरुहभरेष्वेकतः पञ्च पञ्च ॥ १८ ॥
भेरीति । राक्षसेन्द्रः स्वयं रामोऽभवत् रामरूपोभवदिति । मायया छिन्नान्कृत्तान्
रावणस्य मूर्ध्नः शिरसिरुहभरेषु केशेषु एकतः पञ्च दधानः रामवेषधारिमायाराव-
णस्य मस्तकान्पञ्च पथ्च कराभ्यां दधानः काकाङ्क्षिन्यायेन एकत इत्युभयत्र
गृह्यते ॥ १८ ॥
एवंविधो भूत्वा पुनरशोकवनिकां प्रविश्य रावण:-
लंकाभटोऽथ रघुनन्दनवेषधारी
Amig
पापो जगाम पुरतो जनकात्मजायाः ।
नाम्नापि यस्य कुत इच्छति तस्य रूपा-
दन्याङ्गनापहरणे न मनः कदाचित् ॥ १९ ॥
तत्रागतः सकामञ्चदत आह-लङ्केति । यस्य रामस्य नाम्नः सकाशान्तद्ग्रहणादेव
मनः नागग्रहीतुरन्याङ्गनापहरणं नेच्छत्ति, किमु कर्तुम् । तस्य रामस्य रूपात्पराङ्ग
नाहरणं कुत इच्छतीति ॥ १९ ॥
7
जानकी रघुनन्दनवेषधारिणं तमालोक्य ( सहर्षम् )
साक्षादालोक्य रामं झटिति कुचतटीभारनम्रापि हर्षा -
दुत्थायोदस्तदो दरदलितकुचाभोगचैलोन्नताङ्गी !