This page has not been fully proofread.

१०.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१४५
 

 
सति । यद्वा एतयोश्चेतसोर्द्वयोर्मध्ये एकमर्ध तुपारदग्धं वेद्मि । कामाग्ने: शीतदाह-
तोक्ता । अपरमर्ध करीपाग्निदग्धं वेद्मि । शुष्कगोमयचूर्ण करीषः । एतेन कोपाने-
रुष्णत्वम् । अतो रामो दुग्धहृदयो जातः त्वं मां भजेत्याशयः ॥ १४ ॥
 
मुग्धे मैथिलि चन्द्रसुन्दरमुखि प्राणप्रयाणौषधि
 
प्राणान् रक्ष मृगाक्षि मन्मथनदि प्राणेश्वार त्राहि माम् ।
रामश्चुम्बति ते मुखं च सुमुखेनैकेन चाहं पुन-
श्चुम्बिष्यामि तवाननं बहुविधैर्मुञ्चायहं मानिनि ॥ १५ ॥
 
2
 
पुनरप्यनुनयति
- मुग्ध इति । दैन्याविष्करणाय पुनः पुनः संबुद्धिः । हे मन्मथ-
नदि कामतरङ्गिणि, प्रकरणं सुगमम् । वागर्थः प्रतिपाद्यते । आत्र रामस्य विप्रलम्भे
प्रलापावस्था । सोक्ता रसोदधौ 'कान्ताश्रितकाल्पनिकव्यवहारः स्यात्प्रलापोयम्'
इति । अत्र मुग्धे इत्यादि पूर्व कल्पना रामे वदति । हे मुग्धे इत्यादि संबोधनवति
मैथिलि, रामोहं एकेन निरुपमेन मुखेन ते मुखं बहुविधैश्चम्बनभेदैश्चम्बिप्यामि ।
हे मानिनि, आग्रहं मुञ्च त्यज । पुनरपि तवाननं त्वदीयमाननं, मामिति शेषः ।
मां चुम्चिष्यतीति आग्रहं मुञ्चेत्यर्थ: । 'वर्तमानसामीप्ये वर्तमानवद्वा' । परस्पर-
चुम्बनाद्रससङ्गः सूचितः ॥ १५ ॥
 
जानकी-
विरम विरम रक्षः किं वृथा जल्पितेन
स्पृशति नहि मदीयं कण्ठसीमानमन्यः ।
रघुपतिभुजदण्डादुत्पलश्यामकान्ते-
देशमुख भवदीयो निष्कृपो वा कृपाणः ॥ १६ ॥
 
विरमेति । हे रक्षः दशमुख, भवदीयः निष्कृपो निर्दयः कृपाण: खड्ग: वा
स्पृशति । वा हठात्स्पृशति । सुगमम् ॥ १६ ॥
 
पश्य-
मद्ध्यानेनाभवद्रामः सीता रक्षस्तु तस्य वै ।
पश्य त्वत्कुलनाशाय मया रामेण भूयते ॥ १७ ॥
 
१०