This page has not been fully proofread.

1
 
१४४
 
हनुमन्नाटकं -
 
( सवैदग्ध्यम्)
 
रे रे लङ्गेश लौल्यात् त्रिपुरविजयिनो मा प्रतीषीः प्रसादं
मा मां छित्त्वाल्पबुद्धे न खलु भवसि वै प्राकृतः प्राणरंकः ॥
मारारे मावितारीर्वरमनलभुवा शापितोसीति यस्य
क्रुद्धं मूर्धानमीशोप्यनुनयति भृशं सोऽयमुच्चैर्दशास्यः ॥ १३ ॥
 
[ अङ्क -
 
रेरे इति । हे सीते, सः अयं त्वत्पदनतः दशास्यः कस्मादवज्ञायसे इति भावः ।
स कः । यस्येति क्रुद्धं मूर्धानं ईशोऽपि जगतामीश्वरोपि रुद्रः उच्चैरनुनयति । इति
किम् । रे रे इत्यनादरे । लङ्केश त्रिपुरजयिनः सकाशात् मां छित्त्वा प्रसादं मा
प्रतीपी: मा स्पृह । मा गृह्णीष्वेत्यर्थः । हे अल्पबुद्धे, मारारे: खलु त्वं प्राणरको न
भवसि । वरगृध्नवः प्राणरकाः त्वं तादृगू न । अन्नेवार्थे वै प्राकृत इवाधुनिक इच
यथेदानींतनः प्राणरङ्कस्तथा त्वं नेति भावः । मामेवमाक्रुश्य रुद्रमाक्रोशति- हे मारा
रे कामशत्रो, वरं मा वितारी: एतस्य वरं मा देहि । तथापि दित्सन्तमालक्ष्याह--
अनलभुवा त्वदात्मजेन गुहेन शापितोसि । चेदस्मै वरं दास्यसि तर्हि गुहस्य
शपथोस्तीत्यर्थः । वरार्थी भजन्नभक्तो भजनानुसारं दास्यन्नप्रभुरिति श्लोका-
भिप्रायः ॥ १३ ॥
 
अर्धे चेतसि जानकी विरमयत्यर्थं च लंकेश्वरः
किं चार्धं विरहानलः कवलयत्यर्धञ्च रोषानलः ।
इत्थं दुर्विधवैशसव्यतिकरे दाहे समेप्येतयो-
रकें बेझि तु पारदग्ध्यमपरं दग्धं करीषाग्निना ॥ १४ ॥
 
रामस्य दग्धहृदयत्वमुपपादयन्नात्मनो भजनीयत्वमाह - चित्तस्य द्वौ भागी तद्वि-
भागं दर्शयति रामस्येति शेषः । रामस्य चेतसि विषये अर्धे चेतः, यद्वा चेतसोई,
चेतसि तस्मिन्कर्मणि सप्तमी अर्ध चेतः जानकी विरमयति तत्स्मरणाविर्भावात् ।
च पुनः अर्धे चेतः लङ्केश्वरो विरमयति तदुत्पन्नकोपातिशयात् । किंच तर्फे । किं
सीताक्रान्तरामहृदयाघै रामविरहानलः कवलयति भस्मीकरोति च । पुनः अर्ध
चेतसोधै यद्रावणाक्रान्तं तद्रोषानलः कवलयति दुर्विधो दुष्प्रकारो वैशसो हिंसा
तस्य व्यतिकरः शीतोष्णव्यत्ययो यत्र एवंभूते एतयोः कामकोपानलयोहे समेपि