This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
एतास्त्वत्पदपद्मषट्पदवधूत्रायाः पुरन्ध्यो ध्रुवं
 
सीते सम्प्रति संगतं तव सतीचारित्र्यवल्लीफलम् ॥ १० ॥
अथान्यमायामनुवर्णयति- अस्मदिति । हे सीते, तव सतीचारित्र्यं पाति-
त्यधर्मस्तस्य वल्ली प्रसार एव वल्ली तस्याः फलं सांप्रतं संगतं अद्यैव प्राप्तम् । धर्मः
परन्त्र फलदस्तव त्वनैवेति भावः । तदेव फलं द्योतयति यतः एताः पुरन्ध्यः मदी-
यनार्यः त्वत्पदपद्मयोः पट्पदवधूप्रायाः भ्रमरीतुल्याः । यथा भ्रमर्योरविन्दमाश्र-
यन्ते तथैवैतास्तव पादमिति भावः । तासां वैशिष्टयं द्योतयति - किंभूताः । अस्म-
दीयो यश्चण्डचपेटघात: करतलप्रहारस्ततः पतिताः विदलिताः ये स्वर्दन्तिनस्तेषां
कुम्भस्थलेभ्यः सकाशात्स्थूलं बहुतरं यथा स्यात्तथा उन्मुक्ता निगता याः सरक्तमौ-
तिकास्तासां लतास्तोमैर्वल्लरीसमूहैर चिता अंध्रयः स्तनाश्च यासां ताः ॥ १० ॥
सीते पश्य शिरॉसि यानि शिरसा धत्ते महेशः पुरा
तानि त्वत्पदंसंश्रितानि सुभगे कस्मादवज्ञायसे ।
श्रुत्वैवं परदारलम्पटवचः स्मित्वा हतं रावणं
निर्माल्यानि शिरांसि तानि तव धिक्साध्वीवचः पातु वः ॥
सीते इति । पुरा शिरः कर्तनसमये अवज्ञायसेऽवज्ञां करोपि । स्मित्वेत्यत्र कोपा-
तिशयाद्धास्यं 'शिवोत्तीर्ण तु निर्माल्यं तन्नस्पर्शार्हमुच्यते इति वचनात् पात्विति
तस्याः वचसान्येऽपि जितकामाः भवन्तीति भावः ॥ ११ ॥
 
१०.]
 
भवित्री रम्भोरु त्रिदशवदनग्लानिरघुना
 
स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः ।
इयं यास्यत्युच्चैर्विपदमधुना वानरचमू-
लघिष्ठेदं षष्ठाक्षरपरविलापात्पठ पुनः ॥ १२ ॥
 
१४३
 
भवित्रीति । हे रम्भोरु, अचिराच्छीघ्रमेव त्रिदशानां वदनग्लानिर्मुखसङ्कोचः
'भवित्री भाविनी अस्तीति शेपः । कुतं इत्यत आह यतो युधि स प्रसिद्धस्ते त्वदीयो
रामः मम पुरतो न स्थास्यति, उच्चैर्विपदम् । जानकी- हे लघिष्ठ हे लघुतर, इदं
पद्यं पष्ठाक्षरपरं सप्तमाक्षरं तद्विलोपात् विलुप्येति । ल्यव्लोपे पञ्चमी । पुनः पठ
एवमुक्ते सप्तभाक्षरलोपादयसर्थः । चरणत्रिके तु क्रमेण त्रिनविलोपः दशवदनग्लानिः
रामः स्थाता, उच्चैःपदं यशोरूपम् ॥ १२ ॥