This page has not been fully proofread.

१४२
 
हनुमन्नाटकं -
 
[ अङ्कः-
कोलाहलं काहलमर्दलानां हेषावं सज्जतुरंगमाणाम् ॥
आकर्णयाकर्णविशालनेत्रे रामागमादार्तनिशाचराणाम् ॥ ७ ॥
 
कोलाहलमिति । आशु रामः कौशल्यव्यञ्जकं ज्ञापयति । आकर्णयेति । काहलो
नाद्यभेदः मर्दुलो मुरजः । सुगमम् ॥ ७ ॥
 
विरम विरम शोकात्कोपमानोऽथ रामः
सतनयपशुबन्धं रावणं मर्दयित्वा ।
बलभिदुपलनीलः कोमलः कोमलाङ्गि
त्वदधर मधुपानं हुं करिष्यत्यजत्रम् ॥ ८ ॥
 
विरमेति । वलभिदुपल: इन्द्रनीलमणिस्तद्वन्नील: इन्द्रनीलमणिव दुज्ज्वल: हुं
कुतस्ते भयमिति । यद्वा हुं रावणं निर्भर्त्स्य ' हुं भये भर्त्सनेऽपि च ' इति
 
शाश्वतः ॥ ८ ॥
 
जानकी-
कामं जीवति मे नाथ इति सा विरहं जहौ ।
 
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥ ९ ॥
 
कासमिति । प्राक्पूर्व अस्य रामस्य अन्तं मरणं सत्यं मत्वा जीवितास्मि,
पुनः मे नाथो जीवतीति मत्वा शुचं विजहौ त्यक्तवत्यस्मीति । लजिता सापत्र-
पाभूदिति ॥ ९ ॥
 
रावण:-
ततः पुनरप्यशोकवाटिकां प्रविशति मारनाराचभिन्नो रावणः
सुरसुन्दरीभिः परिवृतः सीताहृदये विकारमुत्पादयितुम् ।
भो जानकि पश्य ।
 
अस्मञ्चण्ड चपेटघातपतितस्वर्दन्तिकुम्भस्थल
स्थूलोन्मुक्तसरक्तमौक्तिकलतास्तोमार्चितांघ्रिस्तनाः ।