This page has not been fully proofread.

.
 
दीपिकाख्यव्याख्योपेतम् ।.
 
अमरपुरवधूनां वल्लभोग्यापि नूनं
व्रजतु परमहंसो मे त्वदालिङ्गनेन ॥ ४ ॥
 
कोपातिशयान्मृत्तमारणोक्तिः, मोहोत्र शोकादिः, रतिस्तदाकुलाम् । वागर्थः ।
शिरसि शोकमोही विरहे अद्यापि रामो मां नालिङ्गतीति रोषप्रेमाणौ । रावणपक्षे
राम इति शेपः । वागर्थे रामोपरिं भ्रमयित्वेति त्वदालिङ्गनेन हेतुना प्रकरणं सुग-
मम् । वागर्थे अत्युत्कटतामाविष्करोति
रावणे हते यावन्निरुद्धदेवाङ्गनावल्लभः यात्र-
दिति । मे मम त्वदालिङ्गनाभावेन जीवो ब्रूजतु ॥ ४ ॥
 
१०.]
 
१४१.
 
इति रामशिरः कमलमालिङ्गितुमिच्छति, आकाशे कोलाहलः-.
 
न खलु न खलु सीते रामभूपालमौलिः
समरशिरसि वध्यो न प्रियस्ते कदाचित् ।
स्पृश कथमपि मातर्मा निशाचारिणस्त्वं
हर हर हरभक्तस्यैष मायावातारः ॥ ५ ॥
 
वागर्थे शिरः कं रावणशिरोग्राहिणं कमात्मानं राममलभतिशयेन रामभ्रान्त्या
एनं रामरूपं रावणं मा स्पृशेति ॥ ५ ॥
 
इत्याकाशवाणीश्रवणमात्रेण शिरसी गगनमुत्पत्य निष्क्रान्
रावणेन सह ॥
 
जानकी-
( सहर्ष, सत्रपंच ) अयि परमधर्मिणि कृपातरंगिणि सर
किमित्यद्भुतमिति ।
 
सरमा राक्षसी - ( सदयम् )
 
जानकि त्वं न जानीषे रावणस्यातिदारुणाम् ।
मायामासाय मा भैषी रामः कामं स जीवति ॥ ६ ॥
 
मायावचिनोऽपायमासाद्य अवगम्य मा भैषीर्भयं मा कार्षीः ॥ ६ ॥