This page has not been fully proofread.

1
 
दीपिकाख्यव्याख्योपेतम् ।
 
१५
 
चाधेर्जाता आध्यनुभावः संशय इति ज्ञानम् । वैदेह्यां मधुररसो जातः । मनआक-
र्पणमेवात्रानुभावः । रामे वीररसः । अत्र स्पर्धेद्दीपनं परशुरामो गत इति ज्ञानम् ।
अत्र सर्वरसानामुद्दीपनविभावो राम एव ॥ २३ ॥
 
शंभौ यद्गुणवहरीमुपनयत्याकृष्य कर्णान्तिकं
अश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः ।
स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो
भियन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः ॥२४॥
 
धनुषो महत्त्ववर्णनेन रामे महत्त्वमवतारयति - शंभाविति । शंभौ रुद्रे यनुणव-
लरीं प्रत्यश्चिकामाकृष्य कर्णान्तिकमुपनयति सति, तदा त्रिपुरावरोधसुदृशां कर्णो-
स्पलत्रन्थयो भ्रश्यन्ति । यदा चेमां गुणवल्लरीमुन्मुच्य परित्यज्य स्वमात्मीयं प्रको-
ठकमास्फालयति तदा तासामेव त्रिपुरसुदृशां वलयानि कङ्कणानि भिद्यन्ते । तदी-
इग्धनुर्दाशरथिना भन्नमिति महत्त्वम् ॥ २४ ॥
 
अपि च -
 
तद्ब्रह्ममातृवधपातकिमन्मथारि-
क्षत्रान्तकारिकरसंगमपापभीत्या ।
ऐशं धनुर्निजपुरश्चरणाय नूनं
देहं मुमोच रघुनन्दनपाणितीथें ॥ २५ ॥
 
Badka
 
नन्वत्र तदुत्थापनमेव पणः, किमर्थं तद्रामेण भग्नमिति चेत्तत्राह- तत् ऐशं धनुः
रामहस्ततीर्थे देहं मुमोच त्यक्तवान् । किमर्थ, निजपुरश्चरणा पापप्रणाशार्थम् ।
कथं पापसंभावना । ब्रह्ममातरौ ब्रह्मा च माता च ब्रह्ममातरौ तयोर्वधस्तेन पात-
किनौ यो मन्मथारिक्षत्रान्तकारिणौ तयोः करसंगमाद्यत्संसर्गपापं तद्भीत्या ।
अन्योऽपि पापस्तीर्थे देहं त्यक्त्वा शुद्धो भावतीतिं प्रसिद्धम् ॥ २५ ॥
 

 
त्रुट्यद्धीमधनुः कठोरनिनदस्तत्राकरोद्विस्मयं
त्रस्यद्वाजिरवेरमार्गगमनं शंभोः शिरः कम्पनम् ।