This page has not been fully proofread.

१४०
 
हनुमन्नाटकं -
 
नयनसलिलधारागर्भनिर्मुक्तहारा ।
रमणमरणभीता मृत्युना किं न नीता
 
हृदयदहनजालः संदहेद्वा विशालः ॥ २ ॥
 
[-
अहहेति । अहह इति खेदे । संदहेत्संदहतु । लोडर्थे लिङ् । सुगमम् । वागर्थः ।
स्वप्ने सीता वदति हे रामरमण, जनकपुत्र्यहं मृत्युना रावणकालेन भवता आत्म-
समीपं किं न नीता । कीदृशी । मरणभियं प्रापिता अतो हृदयस्थस्त्वद्वियोगाग्निः
किं न संदहेत् अपि तु संदहेदेव । चार्थे वा । चकारात्पुनः किं नेति ग्रहणम् ॥२॥
 
( रामशिरः कमलमधिकृत्य)
 
हा राम हा रमण हा जगदेकवीर
तत्किं न स्मरसि ।
 
A
 
अधरमधु मदीय कामकेलीषु पीत्वा-
ऽमृतमिति यदवादीस्तीरवानीरकुञ्जे ।
किममृतपरिपूर्ण शीर्णमप्यम्बरेक
 
स्तम इव नहि शत्रु नाथ मनासि घोरम् ॥ ३ ॥
 
1. प्रकरणार्थः स्पष्टः । वागर्थ: । हेति कष्टं अनुभूतं भवता । अधरेति तीरे नदी-
तीरे वानीरकुञ्जस्तत्र अमृतपरिपूर्ण चन्द्रमण्डलं शीर्ण गतरसं, किं त्वधरामृतं तु
नवीनत्वात्सरसमिति भावः । 'जरठारसयो: शीर्ण' इति हैमी । अर्क: सूर्यस्तम
इवान्धकारमिव 'क्षीणेन्धतमसं तमः' इत्यमरः । वागर्थेप्ययमेवार्थः ॥३॥
 
रावण:-
शिरोविरहशोकमोहरोषप्रेमाकुलामालापैराश्वासयति ।
जानकी - सत्वरं प्राणांस्त्यक्तुमिच्छन्ती भोः प्राणाधिनाथ राम!
अहह मधुरवाणी किं न वक्रारविन्दे
नयनकमलयोस्ते नो मदङ्गे विलासः ।.