This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
अथ दशमोऽङ्कः ।
ततः सुन्दरं मन्दिरं प्रविश्य रावणः सानुचर:-
भो भो लंकेश्वरानुजीविनो जनाः शृणुत अहमिदानीं माया-
प्रपंचरचनाभिर्जानकीमृदुसुरभिस्फीतदोर्मूललालित्य-
विराजमानपीनोन्नतकुचकलशोपशोभितोरःस्थले खेलमान-
स्तन्मधुराधरं पास्यामि ॥
 
मायाविनोऽनुचराः - यद्रोचते देवस्य ।
 
राक्षसान्त्रावयतीति रावणो रामः 'मृतिलक्षयोरनु इत्यव्ययवृत्तौ' । लङ्केश्वरस्या-
नुमृतिं प्रति जीवितु शीलं येषां ते लङ्केश्वरमरणार्थं वा जीवनं येषां ते भो वानराः
'माया वश्चनयुद्धयोः' इति विश्वः । युद्धप्रपञ्चरचनाभिः ।
 
(रावणः)
 
१०. ]
 
अथ रंजनिचरेशो रामसौमित्रिमाया-
विरचितशिरसी तद्रूपलावण्यपूर्णे ।
गलदविरलरक्ते प्रेतपर्य्यस्तनेत्रे
जनकदुहितुर स्थापयामास पापः ॥ १ ॥
 
थेति । तयोः रामलक्ष्मणयो रूपलावण्ये ताभ्यां पूर्णे अचैतन्याद्विपरीतनेत्रं
सुगमम् । अथ वागर्थः प्रतिपाद्यते रजनिचरे । स्वप्ने 'रक्षःस्वप्नौ निशाचरौ' इति
हैमी । अचितशिरसी अचित ईश: 'अजितात्माऽचितोवशः' इति विश्वः । जनकदु-
हितुरथे स्थापयामास 'एलोपः' इतीकारलोपः । कीदृश इत्येपेक्षायामाह-रामसौ-
मित्रिरूपेण मायया आविः प्रत्यक्षः एकं शिरो रामः एकं लक्ष्मण इति लक्ष्मणो
'मेघनादं हनिष्यति रामो रावणमिति व्यञ्जकं 'आत्मा वै पुत्र उत्पन्नः' इति श्रुतेः ।
पं धर्ममासमन्ततः पातीति पापः धर्मपः 'पोस्त्रियां धर्मयमयोः' इत्येकाक्षरी ॥ १ ॥
 
(जानकी)
 
सबाष्पं, शिरःसरसीरुहद्वयमालोकयति-
"अहह जनकपुत्री फुल्लराजीवनेत्री
 
१३९
 
}