This page has not been fully proofread.

१३८
 
हनुमन्नाटकं -
 
रावणः-.
 
मनः प्रिये परिमलस्तव भेदमारव्या-
त्यङ्गे विदेहदुहितुः सरसीरुहाणाम् ॥
 
३९ ॥
 
[ अङ्क:-
मैन इति । हे प्रिये, तवाङ्गे मैनः मीनस्येवायं परिमलो मैनः भेदमाख्याति कथ-
यति । विदेहदुहितुरङ्गे सरसीरुहाणां परिमल: भेदमाख्यातीति भेदः ॥ ३९ ॥
रूपे तवास्याथ्व न कोपि भेदः खेदं प्रिये मचनेन मागाः ।
सीताधरे वा मधुरे दशास्यो रामो रमिष्यत्यथ वाथ सयः ॥ ४० ॥
 
ननु रूपाढ़ी इत्युक्ते किमपि विमुखां दृष्ट्वा पुनराह-रूपेणेति । हे प्रिये, तत्र
अस्याः सीतायाश्च । सुगमम् । वागर्थः प्रतिपाद्यते । रामः अद्यैव । एवार्थे वाशब्दः
राम एव वा सीताधरे रमिप्यति दशास्यो रावणः सद्य एव वामधुरे वामा:
मांसाशिनस्तेषां धुरं बहती वामधूः संग्रामस्तं प्रति रमिष्यतीति रमयिष्यती-
त्याक्षिप्यते । कर्मणि चतुर्थी 'वामो स्त्रीमुग्धयुद्धयोः' इति नाममाला । अन्य-
पूर्ववत् ॥ ४० ॥
 
मन्दोदरी -
 
( सकरुणा लंकामधिक्षिपति )
विभीषणः पापकथानिमनः स्वापाकुलोभूयदि कुम्भकर्णः ।
राजाभिमानी पतितः कलंके लंके निमशासि गभीरपके ॥ ४१ ॥
 
प्रतिपक्षाश्रयणालङ्काभङ्गेप्सुत्वमेव पापकथा तत्र निमग्नः यदीति निश्चये। कलङ्के
पापे सीताभिलापरूपे ॥ ४१ ॥
 
इति निष्क्रान्ताः सर्वे ॥
 
इति श्रीहनुमन्नाटके मन्त्रिवाक्यं नाम नवमोऽङ्कः ॥ ९ ॥
 
इति श्रीहनुमन्नाटके टीकायां नवमोऽङ्कः ॥ ९ ॥