This page has not been fully proofread.

हनुमन्नाटकं -
 
[
 
नृपोध्यप्रमत्तः स्यादित्याह - नियुक्तेति । ते राजानोऽलं मूढधियः राज्यकरणा-
आग्रत् । ये स्वैरं स्वच्छन्दं ये विहारास्त एव साराः करणीयत्वेनोपादेया येषाम् ।
एवंमूनाः सन्तः स्वयं तिष्ठन्ति राज्यवृत्ताज्ञानमेवात्र स्त्रापः । विडालवृन्दे आहिता
अपिता दुग्घमुद्रा क्षीरपात्रं यैस्ते । अन्न विडालसाम्यं नियुक्तानां, दुग्धस्य राज्य-
साम्यमिति ॥ ३३ ॥ ३४ ॥
 
अपि च-
उन्खातान्प्रतिरोपयन्कुसुमिताँश्चिन्वँलघून्वर्धयन्
मुद्रान्कण्टकिनो बहिर्निरसय न्विश्लेषयन्संहतान् ।
अत्युच्चान्नमयन्नताँश्च शनकैरुन्नामयन्भूतले
कलाकार इव प्रयोगचतुरो राजा चिरं नन्दते ॥ ३५ ॥
 
ञ्ज्याविसंक्षिप्य राजवर्तनं दर्शयति - उत्खातानिति । उत्खातान्स्थानत्याजिता-
व्यक्तित्रोपयन्स्थानान्तरं स्थापयन, कुसुमितान्सुपुष्पवतः भृत्यद्रुमान् लघुन्लघुवृक्ष-
तुल्यरन, क्षुद्रानन्यवृक्षसमानान्, फण्टकिनः पुनस्तापकारिकण्टकद्रुमान्संहत्य
वितान्दुर्मृत्यान् अत्युच्चान् सकलैश्वर्योन्नतवृक्षान्, नृपभावमारूढत्वान्नतान् आत्मा
नुकुडार्जवस्कन्धान् । भृत्यद्रुमयोः साम्यम् ॥ ३५ ॥
 
राजन्कार्यवशाविरुद्धसंग्रहोपि राज्ञा शुद्धेनाशुद्ध-
संग्रह प्रयोजनहीनोऽपि कर्तव्यः । प्रयोजनं जनयति
केचित्काले । अत्र भगवान् भवतामिष्टः प्रमाणमेणाङ्कमौलिः ॥
 
जीर्णेप्युत्कटकालकूटकवले प्लुष्टे हठान्मन्मथे
नीते भासुरभालनेत्रतनुतां कल्पान्तदावानलैः ।
यः शक्तया समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं
यत्ते कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ॥ ३६ ॥
 
अथ विरुद्धसंग्रहः । कार्यवशात् शुद्धेन राज्ञा अशुद्धसंग्रहः प्रयोजनहीनोपि
उत्तैच्च एव । अत्र तद्गुरुं रुद्रमेवोदाहरति - जीर्णे इति । प्लष दाहे । दुग्धेपि शक्त्या
चन्द्रादिसंग्रहं बिनापि कालकूटादिकहननसामर्थ्य शक्तिस्तयुक्तोपि संग्रहं