This page has not been fully proofread.

N
 
दीपिकाख्यव्याख्योपेतम् ।
 
नीतिशास्त्रमिदं श्रुत्वा कुम्भकर्णः क्वचिद्दली ।
हन्ति चेन्मामतो युद्धे प्रथमं प्रेष्यतामयम् ॥ ३० ॥
नीतीति । क्वचित्कदाचित् प्रेष्यतां प्रस्थाप्यताम् ॥ ३० ॥
विरूपाक्षमहोदरौ - ( प्रभोः शिरः कम्पनादन्तर्ग-
तमभिप्रायमवगम्य )
 
९. ]
 
on
 
BY
 
नीतिशास्त्रविदो धर्म केवलं नृपतेः पुरः ।
पठन्ति युवराजादिपुरतो न कदाचन ॥ ३१ ॥
अन्तर्गताभिप्रायमवगम्य सीतां न दास्यति प्रत्युत कुम्भकर्णाद्विभेतीति ज्ञात्वा
मन्त्रिणावूचतुरिति शेषः । नीतिशास्त्रेति । नीतिशास्त्र निर्णेतॄणां गुरौ सतिं राज्यकृत्
युवराजः ॥ ३१ ॥
 
हा नाथ लंकेश्वर ! किमित्यावयोः श्रद्धाधिकारिणो-
वैंरूप्यशंकामं कुरयसि तेऽन्ये दुरधिकारिणः पापाः ॥
उक्तञ्च -
 
न सर्पस्य मुखे रक्तं न दुष्टस्य कलेवरे ।
 
न प्रजासु न भूपाले धनं दुरधिकारिणि ॥ ३२ ॥
 
नेति । कोपे, दुष्टे दुरव्ययम् । दुरधिकारिणि कोपातिशये सति दुष्टस्य पुंसः
शरीरे रक्तं न सर्पस्यापि मुखेन । तस्य क्रोधविपाभ्यामवशोपणात् । तथा दुर
धिकारिणि दुष्टे नियोगिनि सति प्रजासु धनं न राजन्यपि न अन्तराले गतत्वात् ।
अतः कुम्भकर्णाद्याश्रयणान्न राज्यं त्वयि नास्मासु । अतः को लाभ इति
भावः ॥ ३२ ॥
 
तेऽव्यधिकारिणः पापा ये द्विषन्ति निजं पतिम् ।
 
आवां तथा विधौ नैव भवानपि न मूढधीः ॥ ३३ ॥
नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये स्वैरविहारसाराः ।
.बिडालवृन्दाहितदुग्धमुद्राः स्वपन्तितेमूढधियःक्षितीन्द्राः ॥ ३४६
 
4