This page has not been fully proofread.

१३४
 
हनुमन्नाटकं -
 
[ अङ्कः-
सूर्यस्य । सूर्या इति पाठे सूर्या नवोढा स्त्री, वधैरिति बहुवचनात् । वधावृत्तय
आक्षिप्यन्त इति तद्वघे तेषां राज्ञां वधे, शेषः सहस्रवदनोऽपि । अतः कारणादैहिकं
नीतिशास्त्रं अधमाधममित्युक्तम् ॥ २५ ॥
 
अपराधं विना मन्त्री प्रभुणा पीडितोऽपि सन् ।
न वैरूप्यं वचियाति तदामुष्मिकमुच्यते ॥ २६ ॥
 
अथामुष्मिकमुच्यते-अपराधमिति । स्वाधिकारप्रमादोत्थः अपराधस्तद्विना
पीडितः कुवाक् दरिद्रादिप्रापितः । वैरूप्यं मन्त्रिभावाभावम् ॥ २६ ॥
 
राज्यग्रहणशक्तोऽपि मनसापि न चिन्तयेत् ।
सचिवः स्वामिनो नाशमैहिकामुष्मिकं हि तत् ॥ २७ ॥
अथैहिकामुष्मिकमुच्यते-राज्येति । ऐश्वर्यातिशयात् भ्रातृत्वाद्वा राज्यं ग्रहीतुं
क्षमोऽपि सचिवः मनसापि, किमुत वाचा कर्मणा वा ॥ २७ ॥
 
शुकथ्य सारणो वीरथ्वैहिको मंत्रिणौ तव ।
 
वानरीं तनुमास्थाय हतौ तत्र स्थितावपि ॥ २८ ॥
 
₹2
 
प्रासङ्गिकमुक्त्वा प्रस्तुतमाह - शुकश्चेति द्वाभ्याम् । 'वीरः शुक: सारणोपि वीरः
स्वाम्युत्सवाहते, इति वररुचिनीतौ । स्वतनुं त्यक्त्वा वाननीं तनुमास्थाय तन्त्र
रामकटके हतौ गतौ 'हन हिंसागत्योः' अधुनापि स्थितौ शरीरव्यत्ययेन तत्पक्षा-
श्रयणाचैहिकौ ॥ २८ ॥
 
आवामामुष्मिकौ राजन्विरूपाक्षमहोदरौ ।
 
मैथिली दीयतां तूर्ण नो चेत् सहचरौ तव ॥ २९ ॥
 
आवां तुं न तथेत्याह-आवामिति । भवता पीडितयोरप्यावयोवैरूप्यं नास्ति
इत्याह - मैथिली दीयंतां तूर्णमिति । ननु तददाने युवयो: का
चेतनाह - चेन्न दास्यसि तर्हि आवां तव सहचरौ । या गतिस्तव सैवावयोरिति
 
गतिरिति
 
-
 
भावः ॥ २९ ॥
 
रावण:-
( सभयं सशिरः कम्पं स्वगतं वा स्वगतमेवोच्यते )