This page has not been fully proofread.

९. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१३३
 
दत्तेति । त्वदन्तेऽपि ज्ञात्वा कथयति । अकार्ये अनुपस्थितकृत्ये, यद्वा अक-
रणीये कर्मणि विदग्धैः कर्णान्तपट्पदैर्मधुकरमालावत्कर्णाभ्यरसिकैः । चित्त-
हेति पाठः ॥ २० ॥
 
पद्मिनी कान्तिमापेदे संकोचं च कुमुद्दती ।
 
--
 
न भवन्ति चिरं प्रायः सम्पदो विपदोऽपि वा ॥ २१ ॥
नन्चिन्द्रादिजयिनो मम के वानरा इति चेत्तत्राह - पद्मिनीति । दिवा पद्मिनी
कान्तिमापेढे कुमुद्रती संकोचम् । रात्री कुमुद्वती कान्तिमापेदे पद्मिनी संकोचम् ।
एवं क्षणाद्विपदः क्षणात्संपदः, अतस्तवाद्य विपत्कालं इति भावः । मन्त्रामननत्वा-
'देश्वर्यातिशयत्वाञ्च । 'पतनान्ता: समुच्छ्रयाः' इत्युक्तत्वात् ॥ २१ ॥
 
*
 
सुरेज्यादिभिराचा
 
तथा च-
नीतिशास्त्रं त्रिधा मतम् ।
 
ऐहिकं चामुष्मिका ख्यमैहिकामुष्मिकं तथा ॥ २२ ॥
सुरेज्येति । सुरेज्यो गुरुः ऐहिकं इहैव सुखदं आमुष्मिकं पारलौकिकम् । ऐहि-
कामुष्मिकं इहामुत्र सुखदम् ॥ २२ ॥
 
ऐहिकामुष्मिकं तत्र शास्त्राणामुत्तमोत्तमम् ।
आमुष्मिकं तूत्तमं स्यादैहिकं चाधमाधमम् ॥ २३ ॥
एपां न्यूनाधिकभावमाह-ऐहिकेति । शास्त्राणां नीतिव्यञ्जकग्रन्थानां मध्ये ॥२३॥
यज्ज्ञानात्स्वामिनं हत्वा भजन्ते मंत्रिणः प्रियम् ।
विषशस्त्रादिभिः शास्त्रं तदैहिकमिति स्मृतम् ॥ २४ ॥
 
अथ शास्त्रत्रयलक्षणमाह - यदिति । मन्त्रिणो राज्याः, भ्रात्रादयः विषदानश-
स्त्रादिहननम् आदिग्रहणात्तद्विपक्षाश्रयणं चेत्यादिभिर्मारणोपायैः ॥ २४ ॥
 
तुल्यः सूर्यद्विजवधैराज्ञाभंगो महीभुजाम् ।
 
यद्वधे यद्भवेत्पापं न शेषो वक्तुमर्हति ॥ २५ ॥
 
नन्वेवं चेत् राज्यप्राप्तिस्तर्हि सर्वे किं न कुर्युरित्यत आह -तुल्य इति । येषां
महीभुजामाज्ञाभङ्ग एव सूर्यद्विजवषैस्तुल्यः वेदमार्गोच्छेदः सूर्यवधः तदधिष्ठातृत्वा-