This page has not been fully proofread.

१३२
 
हनुमन्नाटकं -
 
[ अङ्कः-
तत्र रण एव मन्त्र इति निर्णीतमाक्षिपति राजनिति । मुखसुखाः वाचैव सुख
येभ्यस्तेषां वाचः सुखाः किमाक्षेपे । ता वाचः एता वाचः व्यसनसंगमे दुःखागमे
सति तव क्षोदक्षमाः दुःखसहा न । 'क्षोदं सङ्कटचूर्णयोः' इति हैमी । यद्वा व्यसन-
संगमे द्यूतपानाक्षस्त्रीमृगयादिवास्वापादयो व्यसनानि तद्योगे । यद्वा मुखसुखाः
वाचो मधुराः ॥ १४ ॥
 
प्रिया वा मधुरा वाक् च हर्म्येष्वेव विराजते ।
श्रीरक्षणे प्रमाणन्तु वाचः सुनयकर्कशाः ॥ १५ ॥
प्रिया इति । श्रीरक्षणे राज्यैश्वर्यपालने । सुगमम् ॥ १५ ॥
विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः ।
विपत्तौ चागतेऽन्यत्र दृश्यन्ते खलु साधवः ॥ १६ ॥
विभवे इति विपत्तौ सत्यां अन्यत्र नीवृदन्तरं वा गते सति ॥ १६ ॥
अग्रे प्रस्तुत नाशानां मूकता परमो गुणः ।
तथापि प्रभुभक्तानां मौखर्यादिदमुच्यते ॥ १७ ॥
 
त्वं तु मन्त्रदानानहो॑ऽसीत्याह- अग्रे इति । शीघ्रागतमरणानां तथापि प्रभुभ-
क्तानां प्रभुप्रियकारिभिर्मन्त्रिभिः मौखर्याद्धाष्टर्थात् । इदं वक्ष्यमाणम् ॥ १७ ॥
यैरव स्तुतिभिः स्वामी प्राप्यते व्यसनाटवीम् ।
पश्चान्मूकत्वमापन्नैरुवर्तुं शक्यते कथम् ॥ १८ ॥
यौरति । यैर्मन्त्रिभिः । असद्गुणारोपणं स्तुतिः । 'अटवी वनपयोः' इति हैमी !
दुःखं पङ्कं पङ्कादुद्धर्तुम् ॥ १८ ॥
 
नद्यश्च खलमैत्री च लक्ष्मीश्च नियतिर्द्विषाम् ।
सुकुमाराथ्व वनिता राजन्नस्थिरयौवनाः ॥ १९ ॥
 
ननु भवन्तु व्यसनानि तरुणीयं कथं त्याज्येत्यत आह - नद्य इति । द्विपन्तीति
द्विषः निर्निदानाप्रियकर्तारः यादृशास्तेषां नियतिर्भाग्यं ऐश्वर्यम् । यौवनम-
भिवृद्धिः ॥ १९ ॥
 
दत्तोत्साहैर कार्येऽपि चित्तग्रहणकोविदैः ।
 
सत्यं विदग्धैर्भुज्यन्ते नृपाः कर्णान्तषट्पदैः ॥ २० ॥