This page has not been fully proofread.

६.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१३१
 
सेतुं बद्धमिमं शृणोमि कपिभिः पश्यामि लंकां वृतां
जीवद्भिर्नहि दृश्यते किमथवा किं वा न वा श्रूयते ॥११॥
 
एत इति । जीवद्भिः चिरशरीरधारणावद्भिः अथवा दर्शनाभावे किं न श्रूयते ।
हा द्वयार्थे । वाद्वयं वा वा कष्टंकष्टं 'हन्तहावाबताः समाः' इति हैमी ॥ ११ ॥
 
विरूपाक्षः - राजन्विषादं मागाः पश्य-
--
 
आज्ञा शक्रशिरोमणिप्रणयिनी शस्त्रग्रहाणामपि
भक्तिर्भूतपतौ पिनाकिनि पदं लंकेति दिव्या पुरी ।
संभूतिद्रुहिणान्वये च तदहो नेहग्वरॉलभ्यते
स्याचेदेष न रावणः क्व नु पुनस्त्वेकत्रं सर्वे गुणाः ॥ १२ ॥
 
आज्ञेति । शऋशिखामणि : मुकुटोपरिमणिवत भासमाना शस्त्रमहाणां ये बलेन
शाहिस्तेषामपि प्रणयिनी सादरं ग्राह्या तवाज्ञा । लङ्केतिपदं वासस्थानं,
हिणो ब्रह्मा, तदन्वये ब्रह्मपौत्रविश्रवसः संभूतिर्जन्म ॥ १२ ॥
 
रावण:- (धैर्यमवलम्ब्य )
 
मतिर्विपश्चितां मन्त्री रतिर्मन्त्री विलासिनाम् ।
पराक्रमैकसाराणां मानिनां त्वसिवल्लरी ॥ १३ ॥
 
मतिरिति । 'शास्त्रविचारसमुत्थं निर्धारणमर्थतो मतिर्मता विबुधैः' इति
रसोदधौ । विपश्चित ज्ञानिनां, विलासिनां कामिनां, मानिनां चित्तोन्नतिमतां,'
असिवल्लरी खड्गधारा अतोऽस्माकं वाहुरेवं मन्त्री भवन्मन्त्रस्तु ज्ञात एवेवि
भावः ॥ १३ ॥
 
अथ महोदरो नाम मंत्री-
-
 
राजन्मुखसुखा वाचो मधुराः कस्य न प्रियाः ।
तव क्षोदक्षमाः किन्तु नैता व्यसनसंगमे ॥ १४ ॥
 
१ आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं । २ उत्पत्तिर्दुहिणान्वये च तदहो नेहम्वरो
लभ्यते । ३ सर्वत्र सर्वैगुणाः इति च पाठान्तरम् ।