This page has been fully proofread once and needs a second look.

हनुमन्नाटकं -
 
[
अङ्क
 

 
लक्ष्मणो रामे सज्यं धनुः कुर्वति सति पृथ्व्यादीनि

भुवनान्यधो यास्यन्तीत्याशङ्कयाह-

 
पृथ्वि स्थिरा भव भुजंगम धारयैनां

त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।

दिक्कुञ्जराः कुरुत तत्रितये दिधी
 
र्षां
रामः करोति हरकार्मुकमाततज्यम् ॥ २१ ॥
 

 
इदं द्वितयं पृथ्वी भुजंगमं चेति । तत्रितये तस्मिंस्तृतये भूभुजंगमकूर्मरूपे । दि-

धीपी धर्तुमिच्छां कुरुतेति ॥ २१ ॥
 

 
पृथ्वी याति विनम्रतां फणिपतेर्नचं फणामण्डलं

बिभ्यति कूर्मराजसहिता दिक्कुञ्जराः कातराः ।

आतन्वन्ति च वृंहितं दिशि भटैः सार्धं धराधारिणो

वेपन्ते रघुपुंगवे पुरजितः सज्यं धनुः कुर्वति ॥ २२ ॥

 
अत्र भूतार्थे यातीत्यादिवर्तमाननिर्देश: कवेस्तात्कालिकानुभवेन । 'फटायां तु

फ़णा द्वयोः' इत्यमरः । 'वृंहितं करिगर्जितम्' इत्यमरः । पुरजितत्रिपुरजेतुः
 

रुद्रस्य ॥ २२ ॥
 

 
तदा च-

 
उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं

भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।

वैदेहीमनसा समं च सहसाकृष्टं ततो भार्गव -

प्रौढाहं कृतिदुर्मदेन सहितं तद्भग्नमैशं धनुः ॥ २३ ॥
 

 
अथ धनुर्भङ्गं नानारसानुभवाच्चित्ररसं दर्शयितुं पञ्चमवतारयति-उत्क्षिप्तमिति ।

कौशिके वत्सलरसो जातः । अत्र हर्षः संचारी हर्पोत्पुलका इति ज्ञानम् । भूपेषु

भयानकरसः । अत्र दैन्यं संचारि दैन्यादेव मुखनमनम् । अत्र भीपणा त्रिविधा ।

तत्र प्रभावेनैव रामे भीषणत्वं, जनके करुणारसो जातः । अन्न ग्लानिः संचारी सा
 
?