This page has not been fully proofread.

१३०
 
हनुमन्नाटकं -
 
[ अङ्क:-
( मन्दोदरीकथनेन किंचित्सभयो रावणः)
शुकं च सारणं वीरं दूतं प्रस्थाप्य रावणः ।
रामदेवस्य शिबिरं मंत्रं चक्रेऽथ मंत्रिभिः ॥ ८ ॥
 
शिविरं कटकम् ॥ ८ ॥
 
तत्र विरूपाक्षनामा मन्त्री - ( सहितम्)
देव त्वां प्रति संप्रति प्रतिभटप्रोल्लासनं नो मुदे
देवायं प्रतिपद्यते हितमिदं यस्माद्वयं मंत्रिणः ।
सीतारक्षणदक्षलक्ष्मणधनुर्लेखापि नोहंचिता
हेलोल्लंघितवारिधिः कपिकुलैः सार्धं स रामो महान् ॥ ९ ॥
 
संप्रति विपत्काले प्रतिभटाः शत्रवस्तान् प्रति प्रोल्लासनं युद्धाय परप्रेरणं
नोस्माकं मुद्दे न । अमुत्र हानादिहापयशः परत्र निरयावहं चेति । तत्र वलाव-
लाख्यानेन हितमेव द्योतयति- सीतेत्यबलत्वं, हेलोल्लंधितेति बलवत्त्वम् । अन्यत्सु-
गमम् ॥ ९ ॥
 
यावद्दाशरथेर्न पश्यसि मुखं यावत्र पाथोनिधिं
 
बद्धं यावदिमां न पावकवशां लंकां निरस्तालकाम् ।
यावनैव निजानुजं सुचरितं यातं कुलाङ्गारतां
तावद्रावण लोकपाल तरसा सीतां प्रयच्छानघाम् ॥१०॥
 
ननु रामं परीक्ष्य दास्यामीर्ति चेन्न-अद्यैव देहोत्याशयेनाह यावदिति । पश्य-
सीति प्रत्येकमनुवध्यते । निरस्ता अलका राक्षस्यो यस्यां, निजानुजं विभीषणं
सुमन्त्रोपदेशकर्तृत्वात्सुचरितमित्युक्तम् । ननु यावन्नीवं तामनुभवामिं ततो न
सुवामीतिचेन्न । अनघां निष्पापाम् ॥ १० ॥
 
रावण: - ( साश्चर्यम् )
एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः
सोहं सर्वजगत्पराभव करो लंकेश्वरो रावणः ।