This page has not been fully proofread.

९.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
त्वद्विपक्षवालिजेता रामो वलीति सगर्भाक्षेपः । इति किम् । बाहूव्रतरुद्रायो
जगद्भक्षको भ्राता इन्द्रविजयी पुत्र इति तत्तस्मात्पूर्व सैवाबला ततोपि वनाच्छाद-
पहता न प्रत्यक्षं, अतो रामाय देयेत्यभिप्रायः ॥ ५ ॥
 
रावण:- (निजभुजाडम्बरं नाटयति )
किं ते भीरु भिया निशाचरपतेर्नासौ रिपुर्मे महान्
यस्या समरोद्यतस्य न सुरास्तिष्ठन्ति शक्रादयः ।
मद्दोर्दण्डकमंडलोद्धृतधनुःक्षिप्ताः क्षणान्मार्गणाः
प्राणानस्य तपस्विनः सति रणे नेष्यंति पश्याधुना ॥ ६ ॥
 
है भीरु भयशीले, ते भिया किं ? न किमपीति राक्षसाधीशस्य मे अम्रौ राम
महान् रिपुर्न । यस्य ममाग्रे अस्य तपस्विनः रामस्य प्राणान् । सुगमम् । चमेकर-
असौ ना पुमान् रामः महान् रिपुरस्ति रामस्याग्रे महुजमण्डलोद्यद्धनुः ततः मेरेनाः
अस्य तपस्विनः रिपुघातिनो रामस्य मार्गणा मम प्राणान् नेष्यन्ति । अतो सिया
किमितीत्यवगम्य ॥ ६॥
 
मन्दोदरी - ( समयं रावणोदितपद्यार्थमपश्यन्ती भाविना
द्वितीयं पद्यार्थमवगम्य ) अहो प्राणनाथ ! लंकेश्वर !
किमिति स्वकपोलकल्पितैर मंगलाला पैरात्मनो वधं
मन्यसे ? शान्तं पापं प्रतिहतममंगलमिति वैचित्र्यसुत्पाय ।
एकः सुग्रीवभृत्यः कषिरखिलवनं पचनं चापि दग्ध्वा
यातस्तूष्णीं तदानीं दशमुख भवतः किं कृतं वीरवगैः ॥
प्राप्तोऽसौ पत्तनांत सकलकपिबलैर्वार्धिमुडङ्ख्य योद्धं
त्वं सीतां मुंचमुंचेत्यनिशमकथयत्प्रेयसी रावणस्य ॥ ७ X
 
एकः असहायः, तत्रापि सुग्रीवभृत्यः, रामभृत्यभृत्य इति । पत्तनं नगरुं वनं
दुग्ध्वा तूष्णीं गतवान्वागाडम्बरं यथा स्यात्तथा यातः गतः । तदा भवतो वीरवः
वस्तुतस्त्वयापि किं कृतं ? न किमपीति । असौ रामः । सुगमम् ॥ ७ ॥