This page has not been fully proofread.

१२८
 
हनुमन्नाटकं -
तत्र मन्दोदरी -
 
दृष्ट्वा राघवमेव राक्षसवनस्वच्छन्ददावानलं
जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च ।
कांक्षन्ती मुहुरात्मपक्षविजयं भंगं च मुग्धा मुहु-
धवन्ती मुहुरन्तरालपतिता मन्दोदरी सुन्दरी ॥ ३ ॥
 
[ अङ्क:-
1
 
राघवमेवेत्येवपदेनासहायत्वं द्योतितम् । मुहुः आत्मपक्षविजयं कांक्षन्ती, चका-
रान्मुहुः परपक्षभङ्गं कांक्षन्ती, मुहुर्धावन्ती अन्तरालपतिता, आसीदिति शेषः ।
अत एव मुग्धाऽज्ञा दैवमजानतीत्यर्थः । कदाचिगृहे, कदाचिद्रावणाभ्याशे, एष
एवान्तरालः स्थित्यभावादिति ॥ ३ ॥
 
वन्दारुवृन्दारकवृन्दवान्दिमन्दारमालामकरन्दबिन्दून् ।
मन्दोदरीयं चरणारविन्दरेणत्करान्कर्करतामनैषीत् ॥ ४ ॥
 
धावनमेव द्योतयति- इयं मन्दोदरी आत्मचरणारविन्दुगतरेणूत्करान्कर्करतामनै-
षीत् प्रापयामास । किंविशिष्टात् । 'वन्दारुरभिवादके' इत्यमरः । वन्दारूण्य
भिवादकानि यानि वृन्दारकवृन्दानि देवसमूहास्तेषां या वन्दी रुद्धस्त्रीगणस्तच्छिरः-
स्थिता या मन्दारमाला पारिजातपुष्पत्रकू तस्या मकरन्दविन्दवो येषु मकरन्दरे-
णुयोगात्कर्करत्वम् । यच्चरणारविन्देति पाठे यस्य रावणस्य चरणारविन्दयो रेणू-
त्करास्तान्वृन्दारकाणां वन्दीरुद्धदेवगणानां चरणपीडनान्मकरन्दबिन्दवः मन्दोदरी-
धावनाद्रेणवः ॥ ४ ॥
 
po
 
मन्दोदरी अञ्जलिं बवा रावणं वैरिविद्रावणं विज्ञापयति देव !
त्वं बाहूद्धतचन्द्रशेखरगिरिर्भ्राता जगद्भक्षुकः
पुत्रः शक्रजयीत्यवेत्य रणधीनूनं बली वालिजित ।
तद्राजन्नबला बलादपहृता देयास्य सा जानकी
लंकायां रहसीत्युवाच वचनं मन्दोदरी मन्दिरे ॥ ५ ॥
मन्दोदरी लङ्कायां, तत्रापि मन्दिरे, तत्रापि रहसीति वचनमुवाच । `तदेवाह-
हे देव कान्त, त्वमिति अवेत्य ज्ञात्वा रणधी: रणोत्कटधी: तथापि वालिजित
 
-