This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
अथ नवमोऽङ्कः ।
अथ निजप्रतापप्रचण्डसमरोत्साहपरिपूर्णस्य लंकापतेः-
श्रुत्वा दाशरथिः सुवेलकटके साटोपमर्धे धनु-
टंकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेपकान् ।
अभ्यस्यन्ति तथैव चित्रफलकैलेकापतेस्तत्पुन-
वैदेहीकुचपत्रवल्लिरचनावैधग्ध्यमर्धे कराः ॥ १ ॥
 
.
 
-
 
१२७
 
'कटको स्त्री नितम्बोद्रेः' इत्यमरः सुवेलाख्यगिरिनितम्बप्रदेशे साटोपं यथा
स्यात्तथा लङ्कापतेरधें करा: दशहस्ताः धनुष्टङ्कारैः ककुभः परिपूरयन्ति । तथा कौ-
क्षिप्यन्ते इति कौक्षेपका: बाणास्तान्प्रोच्छन्ति विमलीकुर्वन्ति पुनरर्धे करा: चित्र-
फलकैः चित्राकृतिभिस्तत्प्रसिद्धं वैदेहीकुचपत्रवलिरचनावैदग्ध्यं अभ्यस्यन्ति । अथ
वागर्थः प्रतिपाद्यते 'कर: कीनाशवानरहस्तयोः ' इति हैमी । अर्धेकराः अर्घेवानराः
श्रुत्वा संस्थाप्य ' श्रुक निष्ठायां कामधेनौ ' पूर्वार्धः पूर्ववदन्ये चित्रफलकैः चित्रित -
भलैः 'फलमाकृतिभल्लयोः ' इति हैमी । लङ्कापतेः कुचपत्रवलिरचना वैदग्ध्यं कुर्वन्
कुच संकोचे इति कामधेनौ । रावणस्य संकोचाय वै पत्रवहिरचना चन्दनमाला निर्मि
तवैद्ग्ध्यम् । यथा चन्दनमालया मण्डपादिरवरुध्यते तथास्य रोधनविधानमिति,
'प्राण्युत्साहौ तु देहिनौ ' इति शाश्वतः । 'लक्ष्मीरीकार उच्यते' इत्येकाक्षरी ।
रावणोत्साहशोभासंकोचाय पत्रवल्लीरचनावैदग्ध्यमिति वै निश्चयेन ॥ १ ॥
 
( ततो निजराजमन्दिर शिखरस्थमञ्चमारुह्य )
लंकायां कृतवानयं हि विकृतिं दग्धायपुच्छः पुरा
. कोप्येष प्रतिभाति वालिसदृशो नूनं तदीयः सुतः ।
श्यामः कामसमाकृतिः शरधनुर्धारी स सीताप्रियः
प्रत्येक रिपुमीक्षतीतिः निगदन्मंच स्थितो रावणः ॥ २ ॥
 
एपः पुरा लङ्कायांविकृतिं दाहरूपाम् । कुतो ज्ञातमित्यत आह-दग्धाग्रपुच्छः एषः
कपिः प्रतिभाति तदीयः- सुतः वालिपुत्रः । कथं ज्ञात इत्यत आह । चालिसदृश
इति । शरधनुर्धारी कः सीताप्रियः । प्रत्येकं रिपुमैक्षतीति निगन्निति स्वयमेव
• वितर्क्य निगदन्त्सन् रावण ईक्षतीति ज्ञेयम् ॥ २ ॥