This page has not been fully proofread.

१२६
 
हनुमन्नाटकं -
 
[ अङ्कः-
+
 
रावणस्य विक्रमद्वयमस्ति मस्तकहोमः कैलासोद्धरणं चेति तत्तद्वयं निराकरोति-
आस्तामिति । सर्वे सुगमम् ॥ ५६ ॥
 
दोर्दण्डाहितपौत्रभिक्षुरभवद्यस्मिन्पुलस्त्यो मुनि-
स्तदा होईन मच्छिनत्परशुना यो राजबीजान्तकः ।
शौर्य शौर्यरसाम्बुधे भृगुपतेसोअप नासीज्जलं
तत्तेजो वडवानलस्य किमसौ लंकापतिः पल्वलम् ॥ ५७ ॥
 
तदसंधिं ज्ञात्वा जिगभिपुरङ्गदो रामवीर्य स्मारयति- दोर्दण्डेति । यो राजवीजा-
न्तकः क्षत्रसंतानसंहर्ता जामदग्य: परशुना कुठारेण यद्वाहुवनं यस्य राज्ञः भुजवनं
अच्छिनदलुनात् । बाहोर्वनमिति निपातः सिद्धः कामधेनौ । तस्य कस्य यस्मिन्
राजन्यर्जुने पुलस्त्यो मुनिर्दोर्दण्डस्याहितः प्रापितः वद्धो यः पौत्रो विश्रवःसुतो रावण-
स्तन्मोचनाय भिक्षुरभवत् पौत्रजीवनदानभिक्षां याचितवानिति । तस्य शौर्यरसा-
म्बुधेवररससागरस्य भृगुपतेः शौर्यमेव जलं तत्तेजो वडवानलस्य रामप्रतापवडवाग्नेः
आलुकमात्रमपि नासीत् । असौ पल्बलमल्पसर : लङ्कापतिः किं न किमपीति ।
एतदन्तरम् त्वद्रामशौर्ययोरिति भावः ॥ ५७ ॥
 
(
 
रे रे राक्षसराज मुंच सहसा देवी मिमां मैथिली
मिथ्या किं निजपौरुषस्य घटनाप्रागल्भ्यमारभ्यते ।
एनां पश्यसि किं न किन्नरगणैरुगीतदोर्विक्रमां
सेनां वानर भर्तुरुद्भटभुजस्तम्भाग्यमीमां पुरः ॥ ५८ ॥
 
एवं रामवीर्यमाश्राव्य तदनुगवीर्य श्रावयति - रेरे राक्षसेति । वानरभर्तुः सुग्रीव-
स्य उद्भटा योद्धारो ये वानरास्तेषां भुजा एव स्तम्भाग्याः मुख्यस्तम्भास्तैर्भयाव-
हम् । अन्यत्सुगमम् ॥ ५८ ॥
 
इति लंकाभटमुत्कटवाक्यैरधिक्षिप्य लंकामातंत्र्यन्नंगदो निष्क्रान्तः ॥
इति श्रीहनुमन्नाटकेऽङ्गन्दाधिक्षेपणं नामाष्ठमोऽङ्कः ॥ ८
 
इति श्रीमिश्रमोहनदासविर्चितायां हनुमन्ना टकटीकायामष्टमोऽङ्कः ॥ ८ ॥