This page has not been fully proofread.

दीपिकाख्यव्याख्योपैतम् ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमालोकय-
ञ्छम्भोरहुत साहसैकरसिक: कैर्न स्तुतो रावणः ॥ ५४ ॥
 
अद्भुतो यः साहसस्तस्मिन्नेको रसो यस्य सः एवंभूतो रावण: कैर्न स्तुतः । अपि-
तु सर्वेरेव सद्भिः स्रजि मालायां सन्निवेशो येयां तैः शिरः पुष्पैः शिरांस्येव पुष्पाणि
तैः शंभो रुद्रस्य मूर्ध्नि अञ्चति सति हस्तस्पर्शवशेन इति दशमं मूर्धानं स्वकीयमा-
लोकयन् । इति किम् । मूले पश्च शिरांसि तत अग्रे चतुष्टयं शिरचतुष्कम् अतश्च
तुष्टये पञ्चमं ग़िरो मृग्यते । कीदृशैः । अन्यतमो दशमस्तवलोकनमितैः प्राप्तैः
वयं नवैव दशमः कुत्रेति पुनः पुनः उच्छोणितैरुग्रलद्रक्तैः ॥ १४ ॥
 
८. ]
 
१२५
 
लंकेन्द्रः समधीरवीर
पदवीरम्यो न गम्यो गिरां
तस्मिञ्जुह्वति चन्द्रहासशकलान्मौलीन पुरारेः पुरः ।
भीत्या मन्दशिखोदयोगपे दहनस्तैरेव तत्र क्षणं
प्राणायैश्च दिक्षया तनुतनुश्वासानिर्दीपितः ॥ ५५ ॥
 
एप लकेन्द्रो रावणः समाश्च ते धीराश्च साधारणधीराणां मध्ये ये वीरा वीरत्वे -
नोत्कटास्तेषां पढ़व्यां मार्गे रम्यः स्पृहणीयः धीरा वीरा अपि यं स्पृहयन्ति । गिरि-
स्त्रिकूटाख्यः रम्यो न दुर्गवर्त्मनास्य धीरत्वमिति न । तस्मिन्रावणे पुरारे: रुद्रस्य
पुरः अग्रे चन्द्रहासकृतखण्डान्मौलीन् जुह्वति सति दहनोग्निर्भीत्या रावणशिरांसि
कथं दहेयमिति भीत्या मन्दशिखोदयः मन्दज्वालोदयः पुनः तैरेव प्राणाद्यैरिन्द्रि-
यगणैर्दिदृक्षया कथमेतानि शिरांसि आत्मानं दाहयन्तीति ज्ञानेक्षया मन्दं मन्दं
श्वासानिलेपित: इन्द्रियाणां क्षणं निराश्रयावस्थानत्वात्तैरेव कृत्तशिरः संचारं
कृत्वाऽनिरुद्दीपित इति भावः ॥ ५५ ॥
 
अंगद: - ( सावज्ञम् )
 
आस्तां मस्तकहोमविक्रमकथा पौलस्त्य विस्तारिणी
देहं किं न निपातयन्ति दहने वैधव्यभीताः स्त्रियः ।
'कैलासोद्धरणेन भारवहनप्रौढिस्त्वयाविष्कृता
तूर्णं वर्णय किं च किंचिदपरं यत्पौरुषस्यास्पदम् ॥५६॥