This page has not been fully proofread.

>
 
१२४
 
हनुमन्नाटकं -
 
[अङ्कः-
वानिन्द्रस्तस्य दम्भोलिर्वञं तेन यो क्षणो योगस्तेन घटितो निर्मितः घोरश्वयथुः
शोथो यत्र । तेन वज्रादपि शोथमात्रमुक्तं न क्षतम् ॥ ५१ ॥
 
आस्कन्धादपि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना
छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरःसन्ततौ ।
अस्मेरं गलिताश्रुगद्गदवचो भननु वा यवभू-
द्वक्रे॰वेवमपि स्वयं स भगवाँस्तन्मे प्रमाणं शिवः ॥ ५२ ॥
 
पुनरात्मनो रौद्ररसावेशमा विष्करोति- आस्कन्धादिति । स्कन्धमभिव्याप्य कण्ठा
एव काण्डा वृक्षस्कन्धास्तेपां. विपिने दर्शशिरोरूपे मयैव चन्द्रहासासिना छेत्तुं
प्रक्रमिते कर्तनं प्रापिते सति । कीदृशे । झटिति शीघ्रं त्रुट्यती शिरःसन्ततिः शिरो-
नाडीपरंपरा यस्य एवं सति दशसु वक्त्रेषु एकमपि वक्त्रं मुखं यद्यस्मेरं स्मितर-
हितं गलिताश्रु त्यक्ताश्रु वा गद्गद्रवाचो वा भग्ननु भग्ना वक्रा भ्रूर्यत्र तत् अभूज्जा-
तम् । तत्तत्र शिवः स्वयमेव प्रमाणं साक्षी । एतेनातिरभसो द्योतितः । गद्गदो--
भयहर्षाभ्यां अत्र भयाद्वयमेतादृशाः शूराः शिरसां कर्तने छेदेपि न कातरा इति
 
भावः ॥ ५२ ॥
 
येऽहंपूर्विकया प्रहारमभजन्मां छिन्धि मां छिन्धि मां
छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेमलयः ।
ते भूमौ पतिताः पुनर्नवभवानालोक्य मूर्ध्नाऽपरा-
न्याचिष्यन्त इमे हि नो वयमिति प्रीत्याट्टहासं व्यधुः
 
॥ ५३॥
 
-
 
ये मूर्धान: अहं पूर्विकया, 'अहंपूर्वमहंपूर्वमित्यहंपूर्विका मता' इति । प्रहारमभ-
जन् पुरारे रुद्रस्य भूमौ पतिताः सन्तः ते मौलयः पुनः मम नवभवान् मूर्ध्नः अव-
लोक्य इति प्रीत्यागृहासं व्यधुः कृतवन्तः । इति किम् । इमे नवभवं रुद्रं रं
याचिष्यन्ते वयं नेति एवंभूतः साहसिफोहमिति भावः । सभयामर्षः पुनः पुनस्त-
देव प्रलपतीति विज्ञेयम् ॥ ५३ ॥
 
मूले पंच ततश्चतुष्टयमिति स्रक्सन्निवेश: शिरः-
पुष्पैरन्यतमावलोकनमितैरुच्छ्रोणितैरञ्चति ।