2023-03-19 23:53:28 by ambuda-bot
This page has not been fully proofread.
<. ]
दीपिकाख्यव्याख्योपेतम् ।
१२३
पिशुनः सूचको यः उत्सर्पो प्रसारणशीलो दर्पस्तेनोद्धुराणां प्रचण्डानाम् । एवं-
भूतानां मूर्ध्ना दोपणां च फलं इदमेव शिरःकर्तनं साहसं भारोहनप्रौढिश्चेति । इह
: मदागमने यन्नगरीरक्षणं फलं स प्रयासः श्रम एवेति भावः ॥ ४८ ॥
सीतां मुंच भजस्व रामचरणं राज्यं चिराद्धुज्यतां
देवाः सन्तु हविर्भुजः परिभवं मा यातु लंकापुरी ।
नोचेद्वानरवाहिनी पतिमहाचञ्चञ्चपेटोत्तरै-
स्तत्तन्मुष्टिभिरंगसंगरगतस्तत्तत्फलं लप्स्यते ॥ ४९ ॥
दृष्टः किं रघुनन्दनो नहि पुरा किं च त्वया न श्रुतोऽ-
रण्ये किं न विलम्बितोसि न पुनर्मार्गे स्थितोसि क्षणम् ।
तल्लंकेश्वर मुंच मानमखिलं श्रुत्वा वधं वालिनः
सीतामर्पय रक्ष राक्षसकुलं दासत्वमङ्गीकुरु ॥ ५० ॥
वानराणां वाहिनीपतयो हनूमदादयस्तेषां महान्तः चश्चत: पेशला ये चपेटा:
- करतलप्रहारास्तेपामुत्तरैरुपर्युपरि कन्दुकवद्वृत्तिभिर्मुष्टिभिः तत्तत्फलं तस्य तस्यान-
यस्य फलं लप्स्यसे प्राप्स्यसि ॥ ४९ ॥ ५० ॥
( क्षेपकः ) रावण:-
KEM
मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना
निसर्गोदग्रेण प्रसभमुरसा पीतगगनः ।
श्रियं देवद्रीचीं निजभुजवनोद्दामकरिणी-
मयं कुर्वन्वीरः स्मरसि कथमासीदशमुखः ॥ ५१ ॥
भोरङ्गद ! त्वं स्मरसि ? अयं मल्लक्षणो दशमुखो वीरः कथमासीत् । एतदेव
वीरत्वं बोधयति किं कुर्वन् देवद्रीची देवानश्यति गच्छति पूजयति वा देवद्रीची
तां देवश्रियं प्रसभं यथा स्यात्तथा निजसुजा एव वनं तत्रोद्दामकरिणीं मत्तमतं -
गजी कुर्वन्सन् 'देवानश्चति देवयङ् ' इत्यमरः । यथा गजी वनमाश्रयति तथेयं
निसर्गोदग्रेण स्वभावादुन्नतेनोरसा पीतगगन आलिष्टाकाशः । कीदृशेनोरसा मरु-