This page has not been fully proofread.

[ अङ्कः
 
१२२
 
हनुमन्नाटकं -
 
हन्यात्कि नांमदस्त्वामतिपरुषरुषा तातकक्षावशिष्टः
प्रोद्धृत्योद्धृत्य पादप्रहत बहुशिरः कन्दुकैः क्रीडितोऽस्मि ॥४६॥
 
et
 
हे रावण ! अतिरुपाऽतिप्रचण्डकोपेनाङ्गदस्त्वामपि किमद्यैव न हन्यात, अपि-,
तु हन्यादेव । परंत्वहनने हेतुत्रयमस्ति तदाह - तातकक्षावशिष्टोसि । यस्ताते-
नानुकम्पया त्यक्तस्तमहं न हन्मीति । अहमपि प्रोद्धृत्योद्धृत्य उच्चैराक्षिप्योत्क्षिप्य
पादाभ्यां महतानि ताडितानि शिरांस्येव कन्दुकास्तैः क्रीडितः । पादप्रहतानि वाणैर्न
हन्तव्यानीति, अतोहं स्वक्रीडनकभञ्जनेन लोकापवाद्भयान्न हन्मीति भावः ।
ननु स्वामिद्वेष्टा हन्तव्य एवेति चेत्तत्राह - देवो रामः ते शिरोभिः उचितवलिं कर-
णीयं दिक्पालवलं करिष्यत्यतो नाहं हन्मि । किंभूतैः । स्फूर्जन्ति दिव्यास्त्राणि
यत्र तस्य वाही रामभुजस्य यो व्यतिकरः कोपस्तेन विमलन्त्यः कन्धरा येषां तैः
ननु वलिप्रदानेनास्य किं भविष्यति तन्नाह - भूतानां संघातं समूहं शासितुं शीलं
यस्य सः अन्यदपि बलिदानक्रियायां शिक्षयितुमिति भावः ॥ ४६ ॥
 
1.
 
अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः ।
तिमलिगिलोऽप्यस्ति तद्विलोप्यस्ति राघवः ॥ ४७ ॥
अप्यर्थगौरवेण रावणं रामं स्मारयति अस्तीति । सुगमम् ॥ ४७ ॥
 
मूर्ध्नामुत्य कृत्ता विरलगलगलद्रक्तसंभूतधारा-
धौतेशांघ्रिप्रसादोपनतजयजगज्जा तमिथ्यामहिम्नाम् ।
कैलासोल्लासनेच्छाव्यतिकर पिशुनोत्सर्पिदपोंडुराणां
दोष्णां चैषामिदं ते फलामह नगरीरक्षणे यत्प्रयासः ॥४८॥
 
1
 
मूर्ध्ना कर्तनसाहसेन दोष्णां भारोद्धरणवर्गेण यस्त्वं नगरीरक्षणं कर्तुमर्हसि चेत्त-
नाह - हे रावण ! एपां मूर्ध्ना मस्तकानां च पुनः दोषणां विंशतिभुजानां च फलमिदं
भारोद्धरणं चेति । तदेव फलं द्योतयति - उद्धृत्य स्कन्धादुत्पाट्य कृत्ताः खण्डिताः
अविरला निविडा: गलाः कण्ठास्तेभ्यो गलद्यद्रक्तं तस्य प्रभूता प्रचुरा या धारा
तया धौतौ प्रक्षालितौ ईशस्य रुद्रयांनी तयोः प्रसादेनोपनतः प्राप्तो यो जयस्तेन
जगति जातः मिथ्यैव महिमा येपां मूर्ध्नाम् । किंभूतानां दोषणाम् । कैलासस्य
गिरेर्या उल्लासनेच्छा तदुद्धरणेच्छा तस्या यो व्यतिकरः अशौर्ये शौर्यारोपः तस्य