This page has not been fully proofread.

<.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
१२१
 
सूत्राकारो भुजगस्तदाकर्षणायोग्रतः प्रमथै रुद्रगणैः साटोपं हास्यनर्तनमिति कृतम् ।
अन्तरे रुद्ररावणयोरन्तराले स्थित्वा यैर्वारितः कण्ठसर्प गृहीत्वेति । असौ रावणः
किं वयेत ? शिरःपुष्पमालार्थ कण्ठभूपणाकर्पणमिति भावः ॥ ४४ ॥
 
( अत्रान्तरे प्रविश्य ) प्रतीहारः-
ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वंत्रिणः ।
स्तोत्रं सहर नारद स्तुतिकथालापैरलं तुम्बुरो ।
सीतारल्लकल्लभग्रहृदयः स्वस्थो न लंकेश्वरः ॥ ४५ ॥
 
3
 
प्रकरणार्थस्तु स्पष्ट एव । अथ वागर्थः प्रतिपाद्यते । परमभक्तो हनूमान् आगता-
न्ब्रह्मादीन्भक्ति बोधयति । हे ब्रह्मन् ! एप रामः अध्ययनस्याध्यापनेन वेदादिना
समयः सम्यगयतीति समयो विपयः न । अतो वहिर्देशे तूष्णीं स्थीयताम् । यदृश्यं
तद्रामे न ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इत्युक्तत्वात् । हे जडमते
वृहस्पते ! स्वल्पं यथा स्यात्तथा स्तोत्रं जल्प वद । एपा वत्रिणी रामस्य सभा भक्त-
गोष्ठी । कीदृशं स्तोत्रम् । संहारः प्रलयः नारद: नयन्ते विपर्यैविक्षिप्यन्ते नराः
प्राणिनस्तेषां समूहो नारं तं ददाति प्रकटयतीति नारदः सृष्टिसमयः । पालितैः
पालकतया स्तूयते यस्यां सा स्तुतिः पालनाख्या संहारसृष्टिपालनात्मककथाला-
पैर्नालं किं तु न पूर्णम् । हे तुम्बुराख्यगन्धर्व ! अत्रेकारप्रलेपः एलोप इति सूत्रेण ।
ईश्वरो रामः लङ्केश्वरेण अरल्लकः शिरः सिन्दूरसरणिः स एवं भल्लकस्तेन भग्नो
रावणस्तस्य हृत् नाशकोरित । तर्हि भयजनकः किं नेत्याह- 'अय: शुभावहो
विधिः' । भक्तजनमङ्गलं करोतीत्यर्थः । ननु सीतार्थ रावणघातात् किं कामी नेत्याह-
स्वस्थः सदास्वरूप इत्यर्थः । प्रकरणार्थोऽवगम्यते 'शिरः सिन्दूरसरणिः स्त्रीणां वै
: रल्लकः स्मृतः इति हलायुधः ॥ ४५ ॥
 
अंगदः - ( क्रोधं नाटयति )
स्फूर्जद्दिव्यास्त्रबाहुव्यतिकरविगलत्कंधेरैस्तैः शिरोभि-
देवो रामः करिष्यत्युचितबलिमयं भूतसंघातशास्ता ।