This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्कः-
शराः श्रोत्रपथेषु नः कति कति प्राञ्चः पदं चक्रिरे .
तेषामेव विलंध्य साम्यसरणि जागर्ति लंकाभटः ।
यद्दोर्मण्डलगाढपीडनवशान्निस्पन्दरक्तच्छटाः
शंकामं कुरयन्ति शंकरगिरेरद्यापि धातुद्रवाः ॥ ४२ ॥
नोऽस्माकं श्रोत्रपथेषु कर्णमार्गेषु कति कियन्तः शूराः पदं स्थानं चक्रिरे । श्रुता
इति पाठे कियन्तः कियन्तो वीराः पदं नो चक्रिरे, अपि तु सर्व एव चक्रिरे इति
क्षैषामपि समत्वं मार्गम् । किंविशिष्टाः शूराः । प्राचः शौर्यपूज्याः । फो लङ्काभट
इत्यपेक्षायामाह । यहोर्मण्डलेति शंकरगिरेः कैलासस्य धातवो गैरिकादयस्तद्भवा
अवयवा अद्यापि यस्य दोर्मण्डलेन गाढाक्रमणवशान्निः स्पन्दं निःसृतं यदुक्तं तस्य
बाटा: प्रवाहास्तेपामाशां कामं पूरयन्ति जनयन्ति ॥ ४२ ॥
 
स्वेषूत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहि-
यकीर्णेष्वलिकेषु दैवलिखितं दृष्टापि रामार्पणम् ।
चित्तनास्खलितेन यस्तदधिकं ब्रह्माणममीणय-
तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ॥ ४३ ॥
 
१२०
 
तस्मै रावणाय कः पुमान्वैरायते न कोऽपीति । यः अस्खलितेनाव्यप्रेण चित्तन
उदधिकं पूर्वतोप्यधिकं यथा स्वात्तथा ब्रह्माणं प्रजापति रुद्रं वा अप्रीणयत् । उभयोः
सृष्टिकारित्वाद्ब्रह्मत्वम् । किं कृत्वा । स्त्रेषु अखिलेषु मूर्धसु अग्नेः सकाशात्स्फुटित्वा
हिरपि कुण्डाहिर्भागे व्याकीर्णेषु समन्ताद्विक्षिप्तेषु सत्सु दैवलिखित रामार्पणं
बामायार्पणं रामादस्य कालो भविष्यतीति दृष्ट्वा । ' अर्पण कालवासयोः' इति हैमो
किंभूतेषु मूर्घसु । जवादुत्कृत्य कण्ठादुत्पाटय हुतेषु ॥ ४३ ॥
 
वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं
यः पूजार्थसमुत्सुको घटयितुं देवस्य खट्ट्टाङ्गिनः ।
सूत्रार्थी हरकण्ठ सूत्रभुजगव्याकर्षणायोयतः
साटोप प्रमथैः कृतं भ्रुकुटिभिः स्थित्वान्तरे वारितः॥४४॥
 
' खट्टाङ्गो नरमञ्जरी ' इत्यमरः । सास्यास्तीति खट्टाङ्गी रुद्रस्तस्य स्वयं छिन्नैः
 
·
 
पूजार्थे समुत्सुकः । पुनः सूत्रार्थे सूत्रप्रयोजनं घटयितुं कर्तुं हरकण्ठेभ्यः
 
.
 
1