This page has not been fully proofread.

८.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
११९
 
1
 
हे कैलाससुभट ! एतदुद्धरणपौरुप, वयं तु अतस्त्वां प्रतिहतं ब्रूमः । शिरोभिर्म
स्तकैः मा देवीर्मा क्रीड । शिव इव पुनः रामस्ते शिरांसि न दास्यति । यथा शिवार्थे
भवतैव कृत्तानिं शिरांसि शिवः पुनस्तुभ्यमदात्, न तथा राम इति उच्धेः प्रबन्धं
प्रकृष्टं बन्धनं यस्य । कस्येव, सरस इव । कुतो हितं नमः यतस्त्वं मदीयपितृभुजस्य
जंगम: कीर्तिस्तम्भः यत्र यत्र त्वं प्रयासि तत्र तत्र वालिना बद्धोयमिति कीर्ति-
स्तंम्भ: । ननु किं हितं वदसि तदाह - कमलवन्धोः सूर्यस्य कुलवधूं सीतां
त्यजेति ॥ ३८ ॥ ३९ ॥
 
त्वद्दोर्दण्डप्रचण्डप्रतिहननविधिप्रौढबाह्वोः सहस्र-
च्छेदक्रीडाप्रवीण स्थिर परशुमहागर्वनिर्वापकस्य ।
दूतोऽहं राघवस्य त्वदपघनघृणावासवालाग्रलोम्नः
पुत्रः सुत्रामसूनोः पुवगबलपतेर्नामतवांगदोऽहम् ॥४०॥
रावणः-
ययाः किल बालतालतरवो रामेण साईत्वच-
श्छिन्नं यच्च पुरातनं शिवधनुस्तद्वीर्घ्यमुद्दिश्यते ।
नासीदेतदनागतं श्रुतिपथं स्वर्लोकधूमध्वजः
पौलस्त्यः करकन्दुकीकतहरक्रीडाचलो रावणः ॥ ४१॥
 
रे वानराधम ! अतिकटुप्रलापी त्वं क इत्यपेक्षायामाह । तत्र स्वामिपित्रोरात्मै-
श्वर्यं दर्शयति - रे रक्षः अहं राघवस्य दूतोस्मि । किंभूतस्य । दोर्दण्डानां प्रचण्डं
यत्प्रतिहननं वलहारित्वं तस्य विधौ विधाने प्रौढं सगर्व यत् बाह्वोः सहस्रं तस्य
च्छेद एव क्रीडा तस्यां प्रवीण: स्थिरोतिधीरो यः परशुर्जामदग्न्यस्तस्य यो महा-
गर्वस्तस्य निर्वापकस्य शामकस्य । त्वगुजजयि हैहयभुजसहस्रच्छेत्तृपरशुरामजयिन
इति ध्वनिः । पुनः सुत्रामसूनोरिन्द्रात्मजस्य वालिनः पुत्रोस्मि । किंभूतस्य वालिन:
त्वदपघनं त्वच्छरीरं तत्र या घृणा करुणा तया त्वदावासाय कृतानि पुच्छवालाग्र -
लोमानि येन तस्य त्वां कक्षागतं कृत्वा भुवं भ्रान्त्वा यदा गतस्तदा गतसंज्ञं त्वां
ज्ञात्वा दृष्ट्वा वालामलोमसु विश्रमितवान् । तस्य पुत्रोऽहमिति ॥ ४० ॥ ४१ ॥