2023-03-19 23:53:27 by ambuda-bot
This page has not been fully proofread.
११८
हनुमन्नाटकं -
[ अङ्क:-
अखिलं पूर्णम् । वलेनेति । लक्ष्मणेन धनुषा कृता या रेखा सापि त्वया न लंघिता
तच्चारेण रामदूतेन हनूमता ॥ ३६॥
रावणः-
यन्मां त्वं वदसि प्रचूर्णितबलान्हेमाक्षदैत्येश्वरा-
ञ्छेषस्याप्यथवा हिरण्यकशिपोर्भस्माङ्गदस्याङ्गद ।
अन्येषाममरद्विषां बलकथा माहुसारादलं
रामश्वेद्रिपुहा प्रियापहरणे संधिं विधत्ते कथम् ॥ ३७॥
हे अङ्गद ! यत् त्वं मां प्रचूर्णितबलं वदसि तत्पूर्यताम् । रामादधिकवलोस्मीति
भावः । काकाक्षिन्यायेनालमो योजनं सर्वत्र । सदैव हेमाक्षो हिरण्याक्षः । तदादी-
न्दैत्येश्वरान्प्रतिवले या कथा सा माहुसारादलं पूर्यताम् माहुवललेशस्तेष्वस्तीति
भावः । अथानन्तरं शेपस्य हिरण्यकशिपोः भस्माङ्गदनाम्नो दैत्यस्य अन्येषाममर-
द्विषामन्येषां च वलकथा माहुसारादलं पूर्यताम् । स्वर्णाङ्गदस्येति पाठे स्वर्ण
तस्यांगदे वाहुभूपणे यस्य हिरण्यकशिपोरिति हिरण्याक्षादिभ्योप्यहमेव वलीत्य
भिप्रायः । अन्यत्सुगमम् ॥ ३७॥
अङ्गदः -
शिरोभिर्मा देवी: शिव इव न ते दास्यति पुनः
प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट ।
हितं तु ब्रूमस्त्वां मम जनकदोर्दण्ड विजय-
स्फुरत्कीर्तिस्तम्भस्त्यज कमलबन्धोः कुलवधूम् ॥ ३८ ॥
रावणः-
कस्त्वं वालितनद्भवो रघुपतेर्दूतः स वालीति कः
को वा वानर राघवः समुचिता ते वालिनो विस्मृतिः ।
त्वाम्बद्धा चतुरम्बुराशिपु परिनाम्यन् मुहूर्तेन यः
सन्ध्यामर्चयति स्म नित्रप कथं तातस्त्वया विस्मृतः ॥ ३९॥