This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
सयः पाटितकण्टकीकंसकणा कीर्णो यदंसस्थली
स्वेनेभाजिनपचवेन झटिति प्रास्फोटयवर्जटि: ॥ ३४ ॥
 
नामेति प्रसिद्धौ । कपीन्द्र हैहयपती वाल्यर्जुनौ स्यातां संभावना । कीदृशौ ।
अवगाढः सर्वातिरेकः अन्तरे मध्ये स्थेमा वलं ययोस्तौ सर्वातिवलाविति । 'स्थेमा-
तिबलधैर्ययोः' इति हैमी। परन्तु तस्य दशकन्धरस्य स्कन्धप्रतिष्ठा पुनः अधुना
महती जाता। कस्य । धूर्जट: शम्भु यद्सस्थलीं यस्य स्कन्धप्रदेशं स्वेनात्मनैव
इभाजिनं गजचर्म तस्य पहवस्थानि यानि करचरणादिचर्माणि तेन झटिति शीघ्रमे-
वास्फोटयत् । कीदृशीमंसस्थलीम् । सद्यः तत्क्षणोत्पाटिता रुद्रार्थ कृत्ता ये कण्ठा-
स्तेपां कीकसस्य ये कणा: अस्थिकणास्तैराकीर्णी 'कीकसं कुल्यमस्थि च' इत्यमरः
वाल्यर्जुनसमयादयारूढवलोऽस्मीत्याशयः ॥ ३४ ॥
 
<.]
 
११७
 
रावणः-
सर्वैर्यस्य समं समेत्य कठिनां वक्षस्थलीं संयुगे
निर्भग्नं मुखमेव दन्तमुसलैरैरावतस्योन्नतैः ।
हेलोत्क्षिप्तमहीप्रकम्पजनितत्रासाङ्गनालिङ्गन्न-
प्राप्तानन्दहरप्रसाद मुदितश्चिन्त्यः स मेऽन्यो रिपुः ॥३५॥
 
*
 
संयुगे ऐरावतस्येन्द्रराजस्य संवर्दन्ता एव मुसलास्तैः समं एकदैव कठिनां मदी-
यवक्षःस्थली समेत्य प्राप्य मुखस्याग्रभागमेव निर्भनं खण्डितं न तु वक्षःस्थलीति ।
एवं सोहमिति कर्मान्तरमाह - सोहं हेलया मयैव क्षिप्तः यो महीधः कैलासस्तस्माद्यः
कम्पस्तेनं जनितस्त्रासो यस्या एवंभूताया अङ्गनाया: पार्वत्या : आलिङ्गनेन प्राप्ता-
नन्दो यो हरस्तस्य प्रसादेन मुदितस्तस्य मे अन्यो रामादन्यतरो रिपुश्चिन्त्यः । नतु
वर्तमानोस्तीति ॥ ३५ ॥
 
B
 
अङ्गदः-
रे रे रावण शंभुशैलमथनप्रख्यातवीर्य्यः कथं
रामं योद्धुमिहेच्छसीदमखिलं चेत्तन्न युक्तं तथा ।
रामस्तिष्ठतु लक्ष्मणेन धनुषा रेखा कता लङ्गिता
तच्चारेण च लंघितो जलनिधिर्दग्धा हतोक्षः पुरी ॥ ३६ ॥