This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
रावणः-
बद्धः सेतुर्यदि जलनिधौ वानरस्तावता किं
नो वल्मीकाः क्षितिधरनिभाः किं क्रियन्ते पिपीलैः ।
दग्धा लंका यदपि कपिना स प्रभावः किलाने:
शौर्याांश्चर्य निजभुजजये किं कृतं रामनाम्ना ॥ २९ ॥
 
निजभुजजयनिमित्तम् । पिपीलिकैः कीटे: । प्रकरणार्थोत्र स्पष्ट एव । वागर्थः
प्रतिपाद्यते । किमित्यपूत । रामनाम्ना निजभुजजयेपि शौर्याश्चर्ये कृतं परंतु तदने-
रेव कृतम् । स तु जगदुद्धरणासक्त इति भावः ॥ २९ ॥
 
<. ]
 
अंगदः -
 
रामो नाम स एव येन भगिनीनासावसापंकिलः
खद्भस्ते खरदूषणत्रिशिरसां धौतः शिरःशोणितः
तद्दालान्तिनितान्तबद्धवपुषः समूच्छितस्वं
घ्राणं दर्पमिव स्वसुर्विलुठितं रामः कथं विस्मृतः ॥३०॥
 
नामेति प्रसिद्धम् स एव येन ते भगिनी शूर्पणखा तस्याः नासावसापङ्किलः
लग्नकर्दम: खरदूपणत्रिशिरसां त्वद्भातॄणां शिरः कृन्तनोत्थशोणितधौतः । क्रोधा-
तिशयात्पुनः मर्म स्पृशति येन रामेण संमूच्छितस्य पर्यस्तलोचनस्य तव दर्पमिव
स्वसुः त्वद्भगिन्याः घ्राणं विलुठितं क्षिप्तं स रामः कथं विस्मृत इति । कोदृश्या:
स्वसुः । तद्बालान्तिनितान्तबद्धवपुषः तवालान्ति सीतासमीपे नितान्तं वद्धं स्थिरी-
कृतं वपुर्यया सा तस्याः सीतावदहमप्यत्रोपाविशामीति भावः ॥ ३० ॥
 
रावणः-
पारमितमहिमानं क्षुद्रमेनं समुद्रं
 
क्षितिधरघटनाभिः कोयमुत्तीर्य गर्वः ।
 
अकलितमहिमानः सन्ति दुष्प्रापपारा
दशवदनभुजास्ते विंशतिः सिन्धुनाथाः ॥ ३१ ॥
 
-