This page has not been fully proofread.

११४
 
हनुमन्नाटकं -
रावणः सरोषम् -
 
कस्त्वं कस्यासि पुत्रः व पुनरिह गतः किंतु कृत्यं च कस्मा-
द्विस्पष्टं विष्टपानां विजयिनमपि मां मन्यसे त्वं तृणाय ।
हहो पौलस्त्यपुत्रस्तव बलमधनस्यांगदोऽहं सुवेला-
संप्राप्तो रामदूतो विसृज जडमते जानकीं वा शिरो वा ॥ २५॥
इह लङ्कायां पूर्व गतः हनूमान् क अधुना कुत्रास्ते । विष्टपानां स्वर्गनिवासिनां
देवानामपि विजयिनं मां तृणाय मन्यसे तृणप्रायम् । अङ्गदः हो आश्चर्यम् । हे
मौलस्त्य, तव वलमथनस्य वालिनः पुत्रोम् ॥ २५ ॥
 
रावणः-
घिग्धिगङ्गद मानेन येन ते निहतः पिता ।
निर्माना वीरवृत्तिस्ते तस्य दूतत्वमागतः ॥ २६ ॥
दूतत्वं दूतभावम् ॥ २६ ॥
 
[ अङ्कः-
अङ्गदः-
युक्तं कृतं तु रामेण येन मे निहतः पिता ।
त्रैलोक्ये शास्तिकृत्याय वर्तते स दुरात्मनाम् ॥ २७ ॥
शास्तिर्निग्रहः स एव कृत्यं यस्मै परदारापहारिणो हननं युक्तमिति भावः ॥२७॥
किं कार्य वद राघवस्य न च किं बद्धः किमम्भोनिधिः
क्रीडार्थ कपिपोतकैरतरलं जानात्यसौ मां नहि ।
लङ्कानाकनिकायवैरिवसतिं किं वेत्ति वेत्त्येव हुं
को लंकाधिपतिर्विभीषण इति प्रख्यातकीर्तिर्भुवि ॥ २८ ॥
 
.
 
अतरलं संग्रामेष्वपलायनं नाकनिकाया देवास्तदरेर्मम वसतिस्थानम् । हुमिति
 
क्रोधे । अङ्गदःप्राह–लङ्काधिपतिः कः भुवि विभीषणो लङ्केश इति प्रसिद्धकीर्तिः ।
सुगममन्यत् ॥ २८ ॥
 
.