2023-03-19 23:53:25 by ambuda-bot
This page has not been fully proofread.
८.]
दीपिकाख्यव्याख्योपेतम् ।
रावणः सगर्वम्-
इन्द्रं माल्यकरं सहस्रकिरणं द्वारि प्रतीहारकं
चन्द्रं छत्रधरं समीरवरुणौ संमार्जयन्तौ गृहान् ।
पाचक्ये परिनिष्ठित हुतवहं किं महे नक्षसे
रक्षोभक्ष्यमनुष्यमात्रवपुपं तं राघवं स्तौषि किम् ॥ २३१६
1
११३
इदं व्यञ्जकं तेन धर्मशीलत्वमुक्तवलत्वं च । प्रकरणार्थस्तु स्पष्ट एव । अक
वागर्थ: प्रतिपाद्यते । वाणी कथयति- हे रावण, स्वकीये गृहे किं वस्तु स्तौपि ? वक
तु किमपि नास्तोति भावः । मत् मत्तः वाण्याः सकाशात् वर्णनद्वारेण तं राघवं न
ईक्षसे न विचारयसि ? तं कम् । यस्येन्द्रं माल्यकरमित्यादि योज्यम् । यचदो-
नित्ययोगात् । कीदृशं राघवम् । रक्षांसि भक्ष्याणि वध्यानि यस्य एवंभूतं मनुष्य-
मात्रं मनुष्यमात्रा अंशा यस्य एवंभूतं वपुर्यस्य ॥ २३ ॥
अङ्गदो विहस्य-
रे रे रावण हीन दीन कुमते रामोजी किं मानुषः
किं गङ्गापि नदी गजः सुरगजोऽप्युच्चैःश्रवाः किं यः
किं रम्भाप्यबला कृतं किमु युगं कामोजी धन्वी नु किं
त्रैलोक्यप्रकटप्रतापविभवः किं रे हनूमान्कपिः ॥ २४ ॥
हीना अल्पा, तत्रापि दीना, अनुकम्प्या, विमतिर्विपरीता मतिर्यस्य तत्संबुद्धिः ॥
उक्तं रसोदधौ - 'शास्त्रविचारसमुत्थं निर्धारणमर्थतो मतं विबुधैः' इति । अत एव
● शास्त्रीयते । त्रिपदं वा संवोधनम् । त्रैलोक्ये प्रकटः प्रसिद्धः प्रतापस्य विभवो
वैभवं यस्य स इति सुरगजः इन्द्रहस्ती किं साधारणो गजः, अपि तु न । तथोचै-
श्रवः कामहनुमतां प्रत्येकं प्रथमैकवचनं विशेषणम् । यद्वा बहुवचनम् । किंविशिष्टाः
सर्वे । त्रैलोक्ये प्रकटः प्रसिद्धो यः प्रतापस्तेन विभवः ईश्वराः । एतेनैतेपामैश्वर्यभी-
पणत्वं द्योतितम् । उक्तं च रसोद्धौ- 'ऐश्वयंराकृतिभिः प्रकृतिभिरपि भीपणा-
स्त्रिधा गदिताः' इति ॥ २४ ॥