This page has not been fully proofread.

हनुमन्नाटकं -
अंगदः -
 
तत्क्षणाविष्कृतक्रोधः कम्पमानः पाणितलेन भूतलं ताड-
यित्वा दोः स्तम्भास्फालकेलिं नाटयति -
रे रे राक्षसवंशघात समरे नाराचचक्राहतं
रामोत्तुङ्गपतङ्ग चापयुगले तेजोभिराडम्बरे ।
मन्ये शैर्षमिदं त्वदीयमखिलं भूमण्डले पातितं
गृधैरालुठितं शिवाकवलितं काकैः क्षतं यास्यति ॥२०॥
 
११२
 
[ अङ्कः
 
रामस्योङ्गौ सर्वोत्तमौ यो पतङ्गचापौ बाणधनुपी तयोर्युगले तेजोभिः क्षात्र-
प्रतापैः कृत्वा आडम्बरे समारब्धे सति 'पतङ्गी रविमार्गणौ' इति विश्वः । 'आडम्बर-
समारम्भगजगर्जितसूर्ययोः' इति विश्वः । यद्वा कीशे समरे । रामस्योत्तुङ्ग पतङ्गचा
पयुक्ताः अला दिशो यत्र सर्वदिक्षु रामवाणचापावेव दृश्ये यत्र नान्यत् 'अलोऽस्त्री
दिक्प्रदानयोः' इति चरकः । पुनः कीदृशे समरे । तेजोभिराडम्बरे प्रागल्भ्यं यत्र
अखिलं शीर्षदशकं तस्य समूहोऽनेन । शीर्षाणां समूहः शैर्षम् ॥ २० ॥
 
रावणः सप्रपञ्चम्-
रेरे शाखामृग ! त्वामहं धर्मशीलतया कटुपलापिनमपि न हन्मि ।
उक्तं च यथोक्तवादी दूतः स्यान्न स बध्यो महीभुजा ।
क्रूरस्तदीयकोपेन काचिदैरूप्यमर्हति ॥ २१ ॥
 
अङ्गदः सवैदग्ध्यम् -
परदारापहरणे न श्रुता या दशानन ।
 
दृष्टा दूतपरित्राणे साधोस्ते धर्मशीलता ॥ २२ ॥
 
+
 
क्रूरेति । कटुप्रलापी तदीयकोपे तस्मिन्दूते एव यः कोपस्तेन कचित्कस्मिंश्चिदङ्गे
वैरूप्यं विरूपत्वं कर्णनासाद्यभावम् ॥ २१ ॥ २२ ॥