This page has not been fully proofread.

<.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
कीदृशोऽहं इन्द्रविजयी । अनैकारादिकारलोपः । तदुक्तं शब्दभास्करे 'कचिदेड:
अकाराकारेकाराणां कचिल्लोप: स्यान्न शश्वत्' । सुगमम् । अथवागर्थ: 'तृणं पिशि-
तशप्पयोः' इति हैमी । तृणचरं मांसाशिनं रक्षोरूपं 'वृक्षो ना द्वीपशाखिनोः' इति
धनंजयः । द्वीपदिपि द्वीपप्लवने द्वीपोल्लंघने विदग्धः । कुतो राम एव तद्धन्ता ।
वह्निज्वालेत्यादि रामविशेषणम् । पुनः कीदृशो रामः । इन्द्रस्य विजयः इन्द्रविजयः
इन्द्रजयकारक इति । कुतोऽहं रावणः । उद्गतो योग उद्योगः । उद्योगी रणसभयः
सन् अधितिष्ठे गगनं लाघवम् ॥ १६ ॥
 
अङ्गदः समदम्-
संधौ वा विग्रहे वापि मयि दूते दशानन
 
अक्षतो वा क्षतो वापि क्षितिपीठे लुठिष्यसि ॥ १७ ॥
संधौ अक्षतः । दशाननीति पाठे समाहारे ईपें । दशानामाननानां समाहारस्त्व-
मिति ॥ १७ ॥
 
अवेहि मां रावण रामदूतं बाणा यदीयाः खरदूषणैणम् ।
भुक्त्वा तृषार्ता इव शोणिताम्भः पास्यन्ति ते कण्ठघटैः सरन्धैः १८
 
खरदूषणौ इत्युपलक्षणम् । खरत्रिशिरस एते एणा: एणानां मांसं ऐणम् । अन्य-
सुगंसम् ॥ १८ ॥
 
रावणः - वानराधम ! कटुअलापिन्पश्य-
-
 
मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाग्रे -
प्यष्टौ ते लोकपाला सम भयचकिताः पादरेणुं ववन्दुः ।
दृष्ट्वा तं चन्द्रहासं स्रवति सुरवधूपन्नगीनां च गर्भो
" निर्लज्जौ तापसौ तौ कथमिह भवतो वानरान्मेलयित्वा ॥ १९ ॥
 
एतन्ममैश्वर्ये सति निर्लज्जौ तापसौ इह मद वानरान्मेलयित्वा तां सीतां कथं
भवतः प्राप्नुतः । 'भू प्राप्तावात्मनेपदी' वा । अथ वागर्थः प्रतिपाद्यते । निर्गता
ब्रह्माण्डे लज्जा याभ्यां यौ वीक्ष्यान्ये सलज्जा भवन्तीति । तापसौ तपोहृदयौ ।
'तपो मे हृदयं साक्षोत्' इत्युक्तत्वात् । कथं शिरचालने कथं भवतः । अपिं तु न
भवत एव ॥ १९ ॥
 
1