This page has not been fully proofread.

हनुमन्नाटकं -
 
अङ्गदः साटोपं स्वामिभक्तिमभिनीय-
कृत्वा कक्षागतं त्वां कपिकुलतिलको वालिनामा बलीया-
त्रान्तः सताब्धितीरे क्षणमिव चरितं स्नानसन्ध्यार्चनं च ।
बाणेनैकेन येनाहत इति पतितो वानरव्रीडयैव
 
त्यक्त्वा सोऽपि प्रगर्व घुमणिसुतपुरं मुञ्च लंकेश गर्वम् ॥ १४ ॥
 
११०
 
[ अङ्कः-
ज्ञानपूर्वकं संध्यार्चनं च तेन चरितं कृतं एवंभूतो वाली येन रामेण एकेनैव
चाणेन हृतः कोपेन हतः सोऽपि वाली प्रगर्व त्यक्त्वा घुमणिसुतो यमस्तत्पुरं
पतितः प्राप्तः । तस्माद्भो लङ्केश गर्व मुश्च । के वयं वानरत्रोडयैव वानराणां लज-
यैव यमपुरं गत इति त्वद्विजयी वाल्येवाहतः । भवतः का कथेति भावः ॥ १४ ॥
 
यत्संदेशहरेण मारुतसुतेनातारि वारां निधिः
 
क्षिं गोष्पदवन्निजालयमिव प्रावेशि लङ्कापुरी ।
सीतादर्शि समभ्यभाषि च वनं चामञ्जि रक्षः पतेः
सैन्यं भूर्यवधि व्यदाहि च पुरी रामः कथं वक्ष्यते ॥ १५॥
 
निजालयमिव निजगृहमिव सीता अशिं च समभ्यभाषि च । यस्य संदेशहरे
तत्कृतं स रामः कथं कथ्यत इति ध्वनिः ॥ १५ ॥
 
'रावणः सकोधम् -
 
कुतो हन्तारण्ये कनकमृगमात्रं तृणचरं
कुतो वृक्षाद्वृक्षप्लवननिपुणो वालिनिहतः ।
कुतो वह्निज्वालाजटिलशरसन्धानसुदृढ-
स्त्वहं युद्धोद्योगी गगनमधितिष्ठेन्द्र विजयी ॥ १६ ॥
 
' अरण्ये तृणचरं तत्रापि कनकमृगमात्रं, न तु सिंहादि हतवानिति शेषः । हन्त
घातकः कुतो यातः । गगनमधितिष्ठेऽधिश्रिये गगनलोकानपि जितवानिति भावः