2023-03-19 23:53:25 by ambuda-bot
This page has not been fully proofread.
८. ]
दीपिकाख्यव्याख्योपेतम् ।
क्षिप्त्वा तद्वनरक्षिणो जनकजां दत्त्वा तु भुक्त्वा वनं
हत्वाक्षं प्रदहन्पुरीं च स गतो रामः कथं वर्ण्यते ॥ १२ ॥
रावणविजयिवालिह्ननाद्रामवलमुपदिश्य पुनः कैमुतिकन्यायेन राममनुवर्ण-
यति - दुर्भेद्यानजेयान्दैत्यनिवहान्समुद्रलंघनविघ्नकरान्दैत्यव्रजान्संपीड्य
लङ्कापुरीं प्रविवेशेति योज्यम् । क्षिप्त्वा तिरस्कृत्य त्वां हत्वा त्वयि विद्यमाने त्वत्सु -
तहननं त्वद्धननं पुरीं लङ्कां प्रदहन् स च वानरोऽपि तूष्णीं गतः असदृक्षानेकेशो
रामः कथं वर्ण्यत इति ॥ १२ ॥
-
हत्वा
रावणः समाक्षिपति-
१०९
भग्नं भस्ममुमापतेरजगवं वाली क्षतः सूक्ष्मत-
स्तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्व सः ।
आः किं तेन सशैलसागरधराधारोरगेन्द्राङ्गदं
साद्रि रुद्रमुदस्यतो निजभुजाञ्जनात्यसौ रावणः ॥ १३ ॥
आ: कोपे । तेन रामेण किं ? न किमपीत्यर्थः । असौ मलक्ष्मणः रावणः निज-
भुजानात्मभुजपराक्रमाञ्जानाति, किंविशिष्टान्भुजान् । साद्रिं रुद्रमुदस्यत उद्धृत-
वतः । कीदृशं रुद्रम् । शैलाञ्च सागराध धरा च एतेपामाधारश्चासावुरगेन्द्रश्च स एवा..
दं] बाहुभूपणं यस्य तम् । पूर्वभागप्रकरणे स्पष्ट एवार्थ: प्रतिपाद्यते, तेन रामेण
अजगवं भमं रामेतरैर्मनसाप्यधूप्यं किमु भक्तं ' त्रुटिताधृष्ययोर्भमं भन्नोस्त्री नाश-
खण्डयो: ' इति शाश्वतः । रामेणेति सर्वत्र । वाली क्षतः घातितः । कीदृशो
वाली । सुक्षतः शोभना विजयसूचकाः क्षताः प्रहारा यस्य । अनेकयुद्धविजयी-
'त्यर्थः । ताला हता हिंसिताः परमारणोपायज्ञाः । 'हन हिंसागत्योः ' । गत्यर्थाः
ज्ञानार्थाः । जलधिर्वद्धः । किंभूतो जलधिः । दुष्प्रेक्ष्य: किमु बद्ध इति बन्धने पटु-
रालोके 'वद्धः संख्याजयोः पुमान् इति धरणिः । किं कृत्वा धनुर्भनम् । रुद्रं
'
दण्डमुदस्योच्चैराक्षिप्येति । तालाः किं कृत्वा हताः । सशैलसागरधरश्वासावरगेन्द्रः
शेष: तस्यांगदं उदस्य लक्ष्मणपादांगुष्ठेनाक्षिप्य ' शिरोवानरभूपासु जनकेऽप्यङ्गदः
पुमान् ' इति धरणिः । जलधिर्बद्धः । किं कृत्वा । वरुणार्कयुक्तोदकस्य तद्बृहत्वात्
'साद्रिवरुणपङ्कयो: ' इति हैम: 'अद्रयो द्रुमशैलार्काः' इत्यमरः । असौ रावणो
निजभुजा जानातीति कटाक्षः । कीद्दंशोऽसौ तः चौर्यकृत् ' तकारचौर्यगर्वयोः
इति हैमः ॥ १३ ॥