This page has not been fully proofread.

<.j
 
दीपिकाख्यव्याख्योपेतम् ।
 
सोऽस्माकं कटके कदाचिदपि नो वीरेषु संभाव्यते
दूतत्वेन इतस्ततः प्रतिदिनं संप्रेष्यते सांप्रतम् ॥ ७ ॥
संभाव्यते संभावितः क्रियते । अदीदलदुन्मूलयांमास । सुगमम् ॥ ७ ॥
अपि च -
 
यो लङ्कां समदीदहत्तव सुतं रक्षांसि चापीपिष-
यः कौशल्यमवीवदज्जनकजामब्धि तथातीतरत् ।
यश्वारामममूमुटत्स हनुमानस्मत्प्रवीरोयमे
• दूराक्रामणदौत्य एव न पुनर्योद्धुं समादिश्यते ॥ ८ ॥
 
अत्रानेकानि पद्यानि क्षेपकानि तेषु कानिचिल्लिख्यन्ते । यो जनकजां प्रति कौ-
शल्यं रामकुशलत्वमवीवदत् । आरामममूमुटत् भङ्गीचकार 'मुट भंगे । स हनू
मान्यवीरोऽद्य मे प्रकृष्टानां वीराणां संमदें सति योद्धुं नादिश्यते परंतु दूरोल्लंघने
दौत्ये चादिश्यते इति यस्तव तादृगवमानं कृतवान् सोऽस्माकं न कियानपति
 
भावः ॥ ८ ॥
 
.
 
रावणः सावज्ञम्
 
रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः
सुग्रीवोऽन्दशल्यभेदकतया निर्मूलकुलद्रुमः ।
 
गण्यः कस्य विभीषणः स च रिपोः कारुण्यदैन्यातिथि-
कातङ्कविटंक पावकपटुर्वथ्यो ममैकः कपिः ॥ ९ ॥
 
रे अङ्गद, स एक एव कपिर्वध्योऽस्ति । ननु चहुपु वीरेपु सत्सु कथमेक एवं
वध्य इत्यपेक्षायामाहे---
रामः स्त्रीविरहेण हारितं वपुर्येन सः तच्चिन्तया रामस्य
चिन्तया लक्ष्मणोऽपि हारितवपुः सुग्रीवः निर्मूलकूलद्रुमः निर्मूलितनदीतटवृक्षव-
त्पातुकः, अतिवृद्धत्वादंगदशल्यभेदकतया वाली तु तेन घातितः तत्सुतोऽङ्गदस्तस्य
भेदकतया सशल्यो निरुत्साहः सन्मृतवत्, विभीषणः कस्येति केन गण्यः ? सच.
विभीषणो रिपो रामस्य कारुण्यस्य दैन्येन मनोवलाभावेन अतिथिजतः । 'का-
१०७
 
t