This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्क:-
पहृत्य नष्टः निलीय स्थितः । त्रैलोक्यदीपनकरस्य रुद्रस्य त्रिशिखवत्रिशूलवत्कराले
भयंकरे । सुगमम् ॥ ४॥
 
रावण: साभ्यसूयम्-
सोऽपि त्वं कमिहावगच्छसि पुरा योऽदाहि लाङ्गूलतो
बद्धो मत्तनयेन हन्त स कथं मिथ्यावदन्नः पुरः ।
किं लङ्कापुरदीपनं तव सुतस्तेनाहतोऽक्षो युधी-
त्युक्तः कोपभयत्रपाभरवशस्तूष्णीमभूद्रावणः
 
॥ ५ ॥
 
अन्न उक्तिप्रत्युक्त्योद्घाटनम् । एवार्थेऽपिशब्दः । सोऽपि त्वं त्वमेव अङ्गदः ।
सोऽपि त्वं कमिवावगच्छसि कमिव जानासि ? यः पुरा लांगूलतः अदाहि मत्तनये-
नेन्द्रजिता बद्धश्च हन्तेति वितर्फे । स हनूमान् नोऽस्माकं पुरोऽग्रे कथं मिथ्यावदत् ।
किं मिथ्योक्तम् । अङ्गदः । लङ्कापुरीदहनं मया कृतमित्युक्तम् । तव सुतोऽक्षनामा
निहत इत्युक्तम् । तेनाङ्गदेनोक्तो रावणस्तूष्णीमभूत् । कीदृशः । कपौ अङ्गदे, भयं
हनूमतः, त्रपा श्रोतृभ्यः, एतदधीनः रावणः ॥ ५ ॥
 
रावणः-
कस्त्वं वानर रामराजभवने लेख्यार्थसंवाहको
यातः कुत्र पुरा गतः स हनुमान्निर्दग्धलङ्कापुरः ।
अङ्गदः साधिक्षेपम्-
बद्धो राक्षससूनुनेति कपिभिः संताडित स्तर्जितः
सव्रीडार्तिपराभवो वनमृगः कुत्रेति न ज्ञायते ॥ ६ ॥
 
अत्राप्युभयवादः । यो हनूमान्पुरा आगतः स कुत्र यातः ? ब्रीडैवार्तिस्ततः
पराभवो यस्य ॥ ६ ॥
 
यो युष्माकमदीदहत्पुरमिदं योऽदीदलत्काननं
योऽक्षं वीरममीमरगिरिदरीर्योऽबीभरद्राक्षसैः ।