This page has not been fully proofread.

M
 
दीपिकाख्यव्याख्यापेतम् ।
 
स्वगतम्-
हन्तुर्हन्तास्मि नो चेत्पितरपि परमोत्पन्नसम्पूर्ण कार्य
स्याद्वै युद्धे वधिष्याम्यखिलकपिभटैरुत्कटो हन्तुमेकः ।
ज्ञात्वा संत्यज्य वैरं गगनमिति समुत्पत्य लंकोद्धटस्य
प्रौढ: पट्टाधिरूढः सुरपतिसुतजस्तन्महोत्पातकेतुः ॥ ३ ॥
 
चेद्यदि पितृवैरमनुस्मृत्य रामं हन्मि तर्हि महदकायै स्यात् । चेत्पितुर्वालिनो
हन्तुर्घातकस्य रामस्य हन्ता नोऽस्मि न स्यां तर्हि अपिशव्दात्पुनर्जनयितुर्वालिनञ्च
परमं महदुत्पन्नमुपस्थितं संपूर्ण कार्य न स्यात् । वैशव्दादत्रापि पुनर्योजनम् । तथापि
पितुर्हन्तु: रामस्यापि कार्य स्यात् । वालिनोऽपि रावणः शल्यं रामस्यापि । अत
एव तद्धनने उभयोः कार्य स्यादिति भावः । अतोऽखिलकपिभटैः सार्धमपि तं
राममेकोऽप्यहं वधिप्यामीति ज्ञात्वा विचार्य वैरमपि संत्यज्य गगनं समुत्पत्य लङ्का-
धिपस्य पट्टाधिरूढः । वहिः सिंहासनस्थोऽभवदित्यर्थः । तत्रापि प्रौढ : सगर्वः सुरप-
तिसुतो वाली तस्य तनयः तस्य । रावणस्यात्यनिष्टाय महोत्पातकेतुर्धूमकेतुः ॥ ३ ॥
 
<. ]
 
ततः प्रविशत्यञ्जलिबद्धः प्रहस्तः ।
देव रामस्य दूतः शाखामृगो द्वारे ॥
रावणः-
प्रवेशय ।
 
१०५
 
ततः प्रविशति प्रहस्तेन सहाङ्गदः ।
आकाशे लक्ष्यं बद्धा ।
रे राक्षसाः कथयत क स रावणाख्यो
रत्नं रवीन्दुकुलयोरपहृत्य नष्टः ।
त्रैलोक्यदीपन करत्रिशिखाकराले
यो रामनामदहने भविता पतङ्गः ॥ ४ ॥
 
रे इत्यनादरे । रे राक्षसाः कथयत वदत । रावणाख्यः रावणेति नामा राक्षस:
च। कीदृशः । रवीन्दुकुलयोः सोमसूर्यवंशयोर्मध्ये रत्नं रूपगुणासाधारणीं सीताम-