This page has not been fully proofread.

S
 
१०४
 
हनुमन्नाटकं -
 
[ अङ्क:-
कपेथ्व सेनाप्लवगैः पुरोगैः पाथोमयं भूवलयं व्यलोकि ।
तत्पृष्ठगैः पङ्कमयं तदान्यैरासीदिहाम्भोनिधिरित्यवादि॥२०॥
इति श्रीहनुमन्नाटके सेतुबन्धनं नाम सप्तमोऽङ्कः ॥ ७ ॥
 
एतत्पद्येन सैन्यवहुत्वं द्योतितं न तु वास्तवम् । यद्वा नराणां उन्मादो जातः स
चाति आहवान्तः ततो हृद्भमस्तस्मादियमुक्तिः । अन्यथा समुद्रे पकादिदर्शनं पुनस्त-
दुभावोऽपि वास्तवश्चेत्ततः सेतुबन्धनादिकमप्रयोजकं स्यात् । उक्तं च रसोदधौ-
'श्रौढानन्दयुजो यस्तद्रूपः स उन्मादः' इति ॥ १९ ॥ २० ॥
 
इति हनुमन्नाटके टीकायां सेतुबन्धः सप्तमोऽङ्कः ॥ ७ ॥
 
अष्टमोऽङ्कः ।
 
रामः सुवेला द्रितटेऽवतीर्णः समुद्रमुढङ्ख्य विकीर्णसैन्यः ।
कृपामुपेत्यारिकुलस्य दूतं सुरेन्द्रप्तारमथादिदेश ॥ १ ॥
विकीर्ण सर्वतो विक्षिप्तं सैन्यं यस्य सुवेलपर्वतावतारे ॥ १॥
रामः - भो महावीराङ्गद ।
 
.अज्ञानादथवाधिपत्य रभसादस्मत्परोक्षे हता
सीतेयं परिमुच्यतामिति वचो गत्वा दशास्यं वद ।
नो चेलक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित-
च्छत्रच्छन्नादगन्तमन्तकपुरं पुत्रैर्वृतो यस्यसि ॥ २ ॥
'रभसो गर्वबेगयोः' इति चरकः । न त्यजसि तर्हि लक्ष्मणेन मुक्ता ये मार्गण
गणा वाणवातास्तैर्ये छेदाः प्रहारास्तेभ्य उच्छलंत्युद्गच्छन्ति शोणितानि तद्युक्तैश्छन्नैः
कण्ठैरातपत्रैवी छन्नमाच्छादितं वा यथा स्यात्तथा यमपुरं यास्यसीति 'ग्रीवातपत्र-
योच्छन्नम्' इति शाश्वतः । अत्र छत्रं ग्रीवा ॥ २ ॥
 
अङ्गदः -
यथाज्ञापयति देवः ।