2023-03-19 23:53:24 by ambuda-bot
This page has not been fully proofread.
७.]
दीपिकाख्यव्याख्योपेतम् ।
१०३
अवागिति 'वचि निर्माण' इति अस्य धातोर्लुङि रूपं कविकामधेनौ । ननु पुनरपि
सप्ताम्बुधीनां वान्ता अधोगता ये रश्मयस्तरङ्गास्तेपां स्रवन्तीमष्टमं समुद्रम् ।
मामङ्गीकृत्येत्यर्थः । यद्वा सप्ताम्वुधीनां मध्ये समं मामकृतेत्यर्थः । विसर्गान्तपाठे
वान्ताः सर्वगता रश्मयस्तेजांसि 'अश्वस्त्री पशुभेदे पुमान्' इति धरणिः । 'नद्यष्टम-
प्रधानेपु स्रवन्ती स्यात्पुमान्हरेः' इति चरकः । अतः लवन्तीं अष्टमंम् 1 किं कृत्वा ।
अस्मद्रोत्रे वंशे भावी यो दशरथाख्यनृपतिस्तस्याश्वमेधेपु यः सर्पि: संपातः घृता-
दिहोमस्ततो य उत्तापस्तयुक्ता या: लोलाः सर्वतः प्रसरन्त्य उज्ज्वलद्नलस्य कलाः
ज्वालास्ताभिर्व्याकुलं अध: कूर्मराज: ज्ञात्वा ऊर्ध्वं च रोदःपुटं 'द्यावाभूमी च
रोदसी' इत्यमरः । द्यावाभूमी ज्ञात्वा । नन्वेतत्पुरैव कथं ज्ञातमिति चेत्तन्नाह -
भाविवेत्ता एतद्भविष्यतीति ज्ञानवान् । यतस्त्वत्पूर्वजकर्तृकोऽहमतो भवदवध्योऽ-
स्मीति भावः । 'विपवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति ॥ १७ ॥
रामः सरोषम् -
चापमानय सौमित्रे राघवेऽधिज्यधन्वनि ।
समुद्रं शोषयिष्यामि पदा गच्छन्तु वानराः ॥ १८ ॥
अत्रेदं पूर्ववृत्तम् - मन्दरपर्वतस्थो विश्वकर्मा नलपिता प्रसन्नः सन्नलमात्रे वरं
ददौ । तव पुत्रों नलो मत्तुल्यो भविता अन्यच्च शिल्पकर्मणि अनेन प्रक्षिप्तं शिला-
तृणकाष्ठादिकमपि जलेऽप्युपर्येव स्थास्यते । अतो नलेन सेतुर्वद्ध इति रामायणे
उक्तम् । एते गुणा: प्रस्तरतरणरूपा:- 'ग्रावाण: प्रस्तरा : शिलाः' इति शाश्वतः ।
हे श्रीमद्दाशरथे, यद्वा पष्ठयन्तं श्रीमद्दाशरथेस्तव ॥ १८ ॥
ततः प्राञ्जलिपुटोपस्थितस्य समुद्रस्याज्ञया नलेन निबध्य-
माने सेतौ तरतः प्रस्तरानवलोक्याह हनुमान-
ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे
.
वार्थी वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च ।
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः
श्रीमद्दाशरथेः प्रतापमहिमारम्भः समुज्जृम्भते ॥ १९ ॥