2023-03-19 23:53:23 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
ततो रामेण -
अथ दशरथपुत्रे तत्र सौमित्रिमित्रेऽ-
प्युदगुदधितटान्ते गर्भदर्भावकीर्णे ।
अहमिह विनिविष्टे नावतोऽयेतिरोषा-
यदि जलधिरनेनाप्यात्तमाग्नेयमखम् ॥ १५ ॥
ततो विभीषणः रामपादौ प्रणम्योपविशति- दशरथपुत्रे उदक्उद्धितटान्ते उत्तर-
दिक्समुद्रतटे विनिविष्टे सति यदि यदा जलनिधिः अग्रे रामपुरतो नागतः देवरूपेण
नाविर्वभूव । तदानेन रामेणाप्याग्नेयं तज्जलशोषणहेतुमस्रं चाणमाददे गृहीतम् ।
कीदृशे तटे । गर्भे मध्यदेशे उपवेशनस्थाने दुर्भैराकीर्णे आस्तृतदर्भे इत्यर्थः ॥ १५ ॥
श्रीरामचन्द्रे दशवहानौ कृतोद्यमे क्रव्यभुजः समस्ताः ।
मित्राण्यमन्यन्त मृगं कपिं च तपोधनं गाढतरं वनं च ॥ १६॥
१०२
-
[ अङ्क:-
मैनाकवात्सल्यादिति भावः । मृगं मारीचं, वचनहेतुत्वात् । कपिं हनूमन्तं,
सीतामार्गणहेतुत्वात् । तपोधनं शापदातारं वैश्यं दशरथशापदातृत्वात् । वनं
सीताहरणहेतुत्वात् । राक्षसवधे मांसवाहुल्यादिभिरुपकारः कृत इति भावः ॥ १६ ॥
समुद्रो रामं प्रति-
अस्मद्गोत्रे भविष्यद्दशरथनृपतेरश्वमेधेषु सर्पिः-
संपातोत्तापलोलज्वलदनल कलाव्याकुलं कूर्मराजम् ।.
ज्ञात्वा रोदः पुटं वा ननु तव सगरः प्राग्भवो भाविवेत्ता
नेता सप्ताम्बुधीनामपि सविधमवाग्वान्तरश्मिः स्रवन्तीम् १७॥
-
ततः अतिभयेनैवाशु वारिधिः स्वस्मिन्कृपामुत्पादयितुं तत्पूर्वजकर्तृत्वमात्मनो
द्योतयन्नवध्यत्वमाविष्करोति - अस्मद्रोत्रे इति । भो राम, तव प्राग्भवः पूर्वजः
सगरः अधि उच्चैः सविधं गंङ्गामवाक् निर्ममे । आनीतवानिति यावत् । यद्यपि
भगीरथेनानीता गङ्गा, तथाप्यश्वान्वेपणपुत्रदाहादिवीजत्वात्सगर एव आनीतवा-
मिति ध्वन्यर्थः । 'उपर्यध्यधसः सामीप्ये' इति शाश्वतः । 'गङ्गा वान्तिकगर्भोद-
वित्तेपु सविधोऽस्त्रियाम्' इति धरणिः । अन्न गर्भोदसविधार्थैक्येन गङ्गा गृह्यते
•