This page has not been fully proofread.

१.]
 
दीपिकारव्यव्याख्योपेतम् ।
 
१९
 
प्रसिद्धः कुलाचारः । एतेन कौलीन्यमुक्तम्। लङ्कापतिः। अनेनैश्वर्यमुक्तम्। दोः क्रीडामशकी-
कृतत्रिभुवनः । एतेन कल्पत्वमुक्तम् । भुजक्रांडानिर्जितत्रिभुवनः । यद्वा भुजक्रीडया
मशकीकृतं निश्चेतनीकृतं त्रिभुवनं येन ।' दंशाचेतनयोमेशा ' इति विश्वः । मश एव
मशकः । एवं भूतो रावणः एनां स्वयमेव याचते तत्तस्मादज्ञातार्थवदीक्षसे विचार-
यसि । ननु वितर्के । प्राग्भवाः प्राच्या मरीच्यादयो मुनयस्तद्वृत्तानि रावणचार-
तानि कथागोष्ठीषु नोऽस्माशासते कथयन्ति । किंभूतानि । परोरजांसि शुद्धानि ।
यद्वा रजोभ्यो भूरेणुभ्यः पराण्यधिकानि परोरजांसि । परसूशब्दं निपातनं मन्यते
भोजराजः । इत्यादिविशिष्टगुणोऽयं याचते तस्मादस्मै दातव्येति भावः । ननु
कथागोष्टीपु तस्यासती ' इति पाठे नु इति वितर्के । गोष्ठीयु पुरावृत्तवर्णनरूपासु
तस्य रावणस्य कथा इयमितिरूपा काचित्सासती मिथ्या न । सत्यैवेत्यर्थः । यद्वा
तस्य लङ्कापतेर्वृत्तं शीलमिव शीलं येषां तानि । मध्यमपदलोपी समासः । रजसः
प्रकृतेः परं परोरजः परब्रह्म तद्रूपाणि । यद्वा तस्य वृत्तानि शीलान्यप्याचरन्तीति
शेषः । ननु महीयान्कथं याचते इति चेत्तत्राह-' साधारणो निरातङ्कं कन्यामन्यो-
ऽपि याचते । किं पुनर्जगतां नेता स पौत्रः परमेष्ठिनः ॥ १२ ॥ १३ ॥ १४ ॥
 
जनकः विहस्य -
 
M
 
शम्भोरावासमचलमुत्क्षेप्तुं भुंजकौतुकी ।
 
माहेश्वरं धनुः क्रष्टुमर्हते दशकंधरः ॥ १५ ॥
 
धनुराकर्पणे रावणशक्तिं द्योतयति काकूक्त्या-दशकन्धरः माहेश्वरं धनुः ऋष्टुमा-
ऋष्टुं योग्योऽस्ति । किंभूतः । शम्भो: आवासस्थानमचलमुत्क्षेप्मुमुद्धर्तु भुजफौतुकी
भुजे कौतुकमस्यास्तीति गुरोगृहमुद्धर्तुम् । किं पुनस्तद्धनुरिति भावः ॥ १५ ॥
 
जनकः सीतां प्रति सखेदम्-
माहेश्वरो दशग्रीवः क्षुद्राश्वान्ये महीभुजः ।
 
पिनाकारोपणं शुल्कं हा सीते किं भविष्यति ॥ १६ ॥
 
दशग्रीवो धनुरारोप्य त्वां लङ्कां नेष्यति । अथवा कञ्चिन्नृपस्त्वां दूरदेशं नेष्य-
तीति खेदः । इत्यर्थ श्रुत्वा सीता पुनः खिद्यमाना तदेव ' कमठपृष्ठकठारेम्" इति
पद्यं पुनः पठति । पुनः पठिते पुरोहितः सोधम् ॥ १६ ॥