This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०
 
</ignore>
<ignore>
हंससन्देशे
 
</ignore>
<verse>
स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं
 

नीलीपुष्पस्तबकललितं काननं संविचीयाः

दृष्टे तस्मिन्ननिमिषवधूनित्यनिर्वेशयोग्ये

स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते
 
४०</verse>
<verse>
कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं
 

पूगारण्ये मृदु विचलयन्पाळिकाचामराणि !

पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः
 

प्रायो वायुः परिजनावधिं पञ्चवाबाणस्य धत्ते
 
org
 
४०
 
४१
 
</verse>
<p>
लक्ष्म्यास्नेहेन नित्यं सदा अनुषक्तं युक्तं दिव्यं अप्रकृतं तेजः परंज्योतिः नन्तुः

नमस्कुर्वतः ते तव नेदीयांसं अधिकसमीपस्थितं कुशलनिवहं क्षेमसमूहं आधा-

स्यति करिष्यति ॥
 
३९
 
</p>
<p>
स्निग्धेति ॥ तदनु स्निग्धा रम्या छाया यस्य तथोक्तं । विततं विस्तीर्
णं
तस्य पूर्वोक्ततेजोरूपस्य विष्णोः धामेव प्रकाशमिव नीलं नीलवर्णं नीलीनां तन्नाम-

कौषधीनां पुष्पस्तबकैः कुसुमगुच्छैः ललितं सुन्दरं काननं वनं संविचीयाः मार्गयेः

अनिमिषवधूनां देवस्त्रीणां नित्यं निर्वेशाय क्रीडाविहाराय योग्ये तस्मिन्नरण्ये

दृष्टेसति ते तव मानसं मनः स्वर्गोद्यानस्य नन्दस्य ि श्रियं शोभामपि लघु अल्पां

मंस्यते विचारयिष्यति ॥
 
४०
 
</p>
<p>
तत्र वने वायुः मन्मथपरिचयांryAM करिष्यतीत्याह - कुर्वन्निति । वायुः यत्र

श्वेताद्वौdrau पूगारण्ये kraमुकवने नानाकुसुमानां रजसा परागेण चित्रं वितानं उल्लोचं

कुर्वन् पालिकाचामराणि क्रमुकपुष्पमयचामराणि मृदु मन्दं विचलयन् कम्पयन्

पुष्पाणां जालैः समूहैः क्ष्मातलं भूतलं पादन्यासस्य क्षमं योग्यं यथा तथा अव-

किरंश्च सन् पञ्चबाणस्य मन्मथस्य परिजनविधिं सेवककार्यं प्रायः धत्ते धार-

यिष्यति ॥
 
४१
 
</p>
</page>