This page has not been fully proofread.

२०
 
हंससन्देशे
 
स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं
 
नीलीपुष्पस्तबकललितं काननं संविचीयाः ।
दृष्टे तस्मिन्ननिमिषवधूनित्यनिर्वेशयोग्ये
स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥
 
कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं
 
पूगारण्ये मृदु विचलयन्पाळिकाचामराणि !
पादन्यासक्षममवकिरन क्ष्मातलं पुष्पजालैः
 
प्रायो वायुः परिजनावधिं पञ्चवाणस्य धत्ते ॥
 
org
 
४०
 
४१
 
लक्ष्म्यास्नेहेन नित्यं सदा अनुषक्तं युक्तं दिव्यं अप्रकृतं तेजः परंज्योतिः नन्तुः
नमस्कुर्वतः ते तव नेदीयांसं अधिकसमीपस्थित कुशलनिवहं क्षेमसमूहं आधा-
स्यति करिष्यति ॥
 
३९
 
स्निग्धेति ॥ तदनु स्निग्धा रम्या छाया यस्य तथोक्तं । विततं विस्तीर्ण
तस्य पूर्वोक्ततेजोरूपस्य विष्णोः धामेव प्रकाशमिव नीलं नीलवर्णं नीलीनां तन्नाम-
कौषधीनां पुष्पस्तबकैः कुसुमगुच्छैः ललितं सुन्दरं काननं वनं संविचीयाः मार्गयेः
अनिमिषवधूनां देवस्त्रीणां नित्यं निर्वेशाय क्रीडाविहाराय योग्ये तस्मिन्नरण्ये
दृष्टेसति ते तव मानसं मनः स्वर्गोद्यानस्य नन्दस्य ि श्रियं शोभामपि लघु अल्पां
मंस्यते विचारयिष्यति ॥
 
४०
 
तत्र वने वायुः मन्मथपरिचयां करिष्यतीत्याह - कुर्वन्निति । वायुः यत्र
श्वेताद्वौ पूगारण्ये मुकवने नानाकुसुमानां रजसा परागेण चित्रं वितानं उल्लोचं
कुर्वन् पालिकाचामराणि क्रमुकपुष्पमयचामराणि मृदु मन्दं विचलयन् कम्पयन्
पुष्पाणां जालैः समूहैः क्ष्मातलं भूतलं पादन्यासस्य क्षमं योग्यं यथा तथा अव-
किरंश्च सन् पञ्चबाणस्य मन्मथस्य परिजनविधिं सेवककार्यं प्रायः धत्ते धार-
यिष्यति ॥
 
४१