This page has been fully proofread once and needs a second look.

इच्छामात्राज्जगदपरथा संविधातुं क्षमाणा-
मिक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् ।
लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे
लंङ्कां गन्तुं तव समुचितं राक्षसीं राजधानीम् ॥ ८
 
स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां
मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् ।
अस्मत्प्रीत्यै जनकतनयाजीवितार्थं च गच्छ-
न्नेकं रक्षः पदमिति सखे ! दोषलेशं सहेथाः ॥ ९
 
---
 
इक्ष्वाकुकुलजाताः जगदन्यथा कर्तुमपि समर्थाः तेषामेतादृशीमवस्थां
समीक्ष्यापि तव कार्यं कर्तुं समुचितः काल इत्याह । इच्छेति || इच्छामात्रात्
जगत् अपरथा अन्येन प्रकारेण संविधातुं कर्तुं क्षमाणां शक्तानां । प्रकृत्या स्वभा-
वेन महतां इक्ष्वाकूणां इक्ष्वाकुवंश्यानां अस्माकं ईदृशीं वर्णयितुमशक्यां वेळां
दृष्ट्वा जलधेः समुद्रस्य पयसा जलेन लक्ष्यश्चासावलक्ष्यश्च लक्ष्या-
लक्ष्यस्तस्मिन् । वीचीप्रसारणकाले द्रष्टुमशक्ये वोचीनिस्सरणकाले द्रष्टुंशक्येच ।
त्रिकूटे त्रिकूटपर्वते । लब्धा संस्था प्रतिष्ठा यस्यास्तां रक्षसामियं राक्षसी राक्षस-
सम्बन्धिी तां राजधानीं लङ्कां नगरीं गन्तुं तव समुचितं युक्तम् ॥ ८
 
अनन्तरं का वा दिग्गन्तव्या मार्गो वा कीदृशः गते किंप्रयोजनं राक्षसपुरी-
गमनं कथं प्रेरयसीति हंसस्य विवक्षां जानन् दक्षिणादिगभिगन्तव्या मार्गोऽपि
समीचीनः गते तु मम च सोतायाश्च बहूपकारः कृतो भवति दोषस्त्वल्पः तस्मा-
दवश्यं गन्तव्यमित्याह । स्थानैरिति ॥ सखे मित्र हंस दिव्यैः श्लाध्यैः स्थानैः
श्रीरङ्गादिक्षेत्रैः उपचितः समृद्धः गुणः अतिशयः यस्यास्तां चन्दनारण्यैः रम्यां
मुक्तानां मुक्ताफलानां सूर्ति उत्पत्तिस्थानं मलयमरुतां मातरं प्रसवभूमिं दक्षिणा-
शां दक्षिणादिशं । अस्माकं प्रीत्यै जनकतनयायाः सीतायाः जीवितार्थञ्च प्राणधार-
णार्थञ्च गच्छन् त्वं रक्षसां राक्षसानां पदं स्थानमिति एकं दोषलेशं सहेथाः
सहस्व ॥ ९