This page has been fully proofread once and needs a second look.

वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्ते-
राहुस्सिद्धाः कमलवसते रौपवाह्यं भवन्तम् ।
लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशा-
त्तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ ६
 
मध्ये केचिद्वयमिह सखे ! केवलं मानुषाणां
व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् ।
स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतो-
स्सर्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥
 
अनन्तरं सीतासमीपं प्रति <error>हंशं</error><fix>हंसं</fix> प्रेषयितुं रामः हंसं स्तौति । वेदेति ॥
सिद्धाः योगिनः । भवन्तं त्वां । वेदएव उदन्वान् समुद्रस्तस्य विभजनं विभागं
वेत्ति जानातीति तथोक्तस्तस्य विश्वं जगदेव मूर्तिः शरीरं यस्य सः विश्वमूर्तिः हंस-
रूपः परमात्मा तस्य <error>वंशजं</error><fix>वंशजम्</fix> आहुः । किञ्च । कमलं वसतिर्वासस्थानं यस्य तस्य
ब्रह्मणइत्यर्थः । औपवाह्यं वाहनं आहुः । किञ्च । प्रगुणा उत्कृष्टा गतिर्गमनं यस्य
तथोक्तेन । येन त्वया | तस्य ब्रह्मणः प्रियायाः सरस्वत्याः सकाशात् समीपात् ।
तस्याः सरस्वत्याः सावर्ण्यं समानवर्णत्वं शुक्लवर्णत्वमितियावत् । लब्धं प्राप्तं ।
श्रवणं श्रोत्रमेव रसना जिह्वा तथा आस्वादः पानं तस्मै योग्या सुधा अमृतञ्च
लब्धा अत्र सुधाशब्देन समीचीनध्वनिरुच्यते ॥ ६
 
कथमेतादृशगुणवत्तया उत्कृष्टं मां दूत्ये प्रेरयसीति शङ्कायां जगत्सृष्टिकर्ता
ब्रह्मापि सारथ्यं चकारेत्याह । मध्यइति ॥ हे सखे मित्र हंस इह भूमौ मानुषा-
णां मध्ये वयं केवलं सामान्यमितरेभ्योऽतिशयरहितं यथातथा केचित् स्मः त्वन्तु
व्योमगानां आकाशसञ्चारिणां । देवानाञ्चेति ध्वन्यते । पतिः असि अतः । महति
भुवने । व्यक्तः प्रसिद्धः उत्कर्षः कीर्तिः यस्य तथोक्तश्चासि । तदपि तादृशोत्कर्षव-
त्वेऽपि । भवतः तव । संश्रितानामाश्रितानां त्राणहेतोः रक्षणार्थम् । दूत्यं अति-
निकृष्टदूतकृत्यमपि स्थाने युक्तं यतः यस्मात्कारणात् सर्वस्य स्रष्टा सृष्टिकर्ता विधि-
रपि ब्रह्मापि सारथित्वेन (त्रिपुरविजये रुद्रस्य) सूतभावेन तस्थौ स्थितवान् ॥ ७